॥ सम्भृत्यधिकरणम् ॥
सू - संभृतिद्युव्याप्त्यपि चातः ॥ (3-3-23) ॥
“ब्रह्म ज्येष्ठा वीर्या संभृतानि । ब्रह्माग्रे ज्येष्ठं दिवमाततान” इत्यादि ज्येष्ठानां वीर्याणां ब्रह्मणि संभृतिर्द्युव्याप्तिश्च ब्रह्मण इत्येतदनारभ्याधीतमपि न सर्वोपासनशेषभूतम् । अतो द्युव्याप्तिः सामर्थ्यादल्पस्थानव्यतिरिक्तेषूपासनेषु प्राप्नोति । संभृत्याद्यपि द्युव्याप्तिसहपठितं तत्रैव ॥