॥ फलाधिकरणम् ॥
सू - फलमत उपपत्तेः ॥ (3-2-37) ॥
अतः परस्माद्ब्रह्मण एव कर्मभिरुपासनेन चाराधितात् भोगापवर्गरूपफलं सिध्यति । कर्म क्षणध्वंसि न कालान्तरभाविफलायालमिति सर्वज्ञात् परमकारुणिकात् (हि added after, A1.) फलसिद्धिरुपपद्यते ॥
सू - श्रुतत्वाच्च ॥ (3-2-38) ॥
श्रुतमेव हि “अन्नादो वसुदानः”, “एष ह्येवानन्दयाति” इत्यस्यैव फलदायित्वम् ॥
सू - धर्मं जैमिनिरत एव ॥ (3-2-39) ॥
धर्ममेव, अतः - उपपत्तेः श्रुतत्वाच्च, फलदायिनं जैमिनिर्मेने (जैमिनिमुनिर्मेने M2.) । उपपत्तिस्तु कृष्यादेर्मर्दनादेश्च कर्मणः साक्षात्परंपरया वा फलसिद्धिदर्शनम् । श्रुतत्वं च कामिनः कर्तव्यतया कर्मविधानान्यथानुपपत्त्या कर्मैवापूर्वद्वारेण तत्तत्फलसाधनमिति निश्चयः ॥
सू - पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ (3-2-40) ॥
पूर्वोक्तं परमपुरुषस्यैव फलदायित्वं भगवान् बातरायणो मन्यते, “वायव्यं श्वेतमालभेत” इत्यादिषु “स एवैनं भूतिं गमयति” इति भगवदात्मकतया वाय्वादेः कर्मविधिष्वेव फलहेतुत्वव्यपदेशात् । वाक्यशेषस्थं च (च omitted pr.) विध्यपेक्षितं (हि added after,A1,M2, pr) “प्रतितिष्ठन्ति ह वा” इत्यादिषु स्वीक्रियते । “यो वायौ तिष्ठन्” इति हि श्रूयते ॥