13 पराधिकरणम्

सू - परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ (3-2-30) ॥
“जस्माद्यस्य यतः” इत्यादिना “प्रतिषेधाच्च” इत्येतदन्तेन यत्परमकारणं (परं omitted M1.2, pr.) परं ब्रह्म प्रतिपादितम्, अतः परमपि किंचित्तत्वमस्तीति युक्त्याभासेनाशङ्क्यते (शङ्क्यते M2,3.) - “अथ य आत्मा स सेतुः”, “एतं सेतुं तीर्त्वा” “चतुष्पाद्ब्रह्म (तद्ब्रह्म M2.)” “अमृतस्यैष सेतुः” इत्यदिभिरस्य ब्रह्मणः सेतुत्वतरितव्यत्वपरिमितत्व प्रापकत्वव्यपदेशेभ्यः “तेनेदं पूर्णं पुरुषेण सर्वम् । ततो यदुत्तरतरम्” इत्येतस्मात् (अर्थान्तरव्यपदेशाच्च M2.pr) अर्थादुत्तरतत्व व्यपदेशाच्चान्यत्परमस्तीति ॥

सू - सामान्यात्तु ॥ (3-2-31) ॥
तुशब्देनैतद्व्यावर्तयति । नैतद्युक्तम् । (कुतः omitted A1) कुतः “न ह्येतस्मादिति नेत्यन्यत्परमस्ति” इति मूर्तामूर्तप्रपञ्चप्रकारतया तद्विशिष्टात् ‘इति न’ इति निर्दिष्टात् ब्रह्मणोऽन्यत्परं नास्तीत्यादिनिषेधसहस्रात् । परस्मिन् ब्रह्मणि सेतुत्वव्यपदेशः प्रशासनात् सर्वलोकासंकरकरत्वेन सेतुसामान्यात् । तथाह - “अथ (अथ omitted M3) य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय” इति । “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इत्यारभ्य उक्तजगन्निमित्तोपादानभूतस्यैव ब्रह्मणः “एतमितः प्रेत्याभिसंभवितास्मि” इति परमप्राप्यत्ववचनात् तरतिरपि प्राप्तिवचनः ॥

सू - बुद्ध्यर्थः पादवत् ॥ (3-2-32) ॥
“चतुष्पात्” इत्युन्मानव्यपदेशोऽपि “वाक्पादश्चक्षुष्पादः” इतिवदुपासनार्थः ॥

सू - स्थानविशेषात्प्रकाशादिवत् ॥ (3-2-33) ॥
अपरिमितस्यापि स्थानविशेषसंबन्धात् अवच्छिद्यानुसंधानं युज्यते, (प्रकाशादेरिव A1,M1) प्रकाशाकाशादेरिव विततस्यापि वातायनघटादिना ॥

सू - उपपत्तेश्च ॥ (3-2-34) ॥
प्राप्यस्यैव परमात्मनः प्रापकत्वोपपत्तेः । यथाह - “यमेवैष वृणुते तेन लभ्यः” इति ॥

सू - तथान्यप्रतिषेधात् ॥ (3-2-35) ॥
“यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्” इत्यस्मिन् वाक्ये पुरुषादन्यस्य (ज्यायसः A1.) ज्यायस्त्वप्रतिषेधादितोऽधिकं नास्ति । “ततो यदुत्तरतरम्” इति तु यतः (तु यतः omitted M1,2.) पुरुषतत्वादन्यदुत्कृष्टं नास्ति, तत उत्तरतरं पुरुषतत्वमेव “अरूपमनामयम् ; य एतद्विरुरमृतास्ते
भवन्त्यथेतरे दुःखमेवापियन्ति” इत्युपक्रमप्रतिज्ञातं सहेतुकमुपसंहृतम् । “तमेव विदित्वातिमृत्युमेति नान्यः पन्थाः” इत्युपक्रमे प्रतिज्ञातम् । अन्यथोपक्रमविरोधश्च (विरोधाच्च M3) ॥

सू - अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ (3-2-36) ॥
“अणोरणीयान्महतो महीयान्” “तेनेदं पूर्णं पुरुषेण सर्वम्” “व्याप्य नारायणः स्थितः” “नित्यं विभुं सर्वगतं सुसुक्ष्मम्” इत्यादिशब्दैरनेन ब्रह्मणा स्वव्यतिरिक्ततत्त्वस्य व्याप्यत्व (स्वव्यतिरिक्तव्यापकत्व) मवगतम् । तत्तु तस्मात्परं वारयति ॥