12 अहिकुण्डलाधिकरणम्

॥ अहिकुण्डलाधिकरणम् ॥
सू - उभयव्यपदेशात्वहिकुण्डलवत् ॥ (3-2-26) ॥
“आत्मैवेदं सर्वम्”, “अस्मान्मायी सृजते” इत्येकत्वनानात्वव्यपदेशात्, अहेः कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैव “द्वे वाव ब्रह्मणो रूपे” इत्यादिनोक्तः पृथिव्यादिभावः ॥

सू - प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ (3-2-27) ॥
प्रकाशतदाश्रययोर्यथा स्वरूपभेदेऽपि तेजस्त्वयोगेनैक्यम्, एवमचिद्ब्रह्मणोश्चैकजातियोगेन ॥

सू - पूर्ववद्वा ॥ (3-2-28) ॥
वाशब्दः (द्वय omitted A1) पक्षद्वयव्यावृत्त्यर्थः । यथा पूर्वत्र जीवस्य प्रकाशजातिगुणशरीरवद्विशेषणतैकस्वभावतया विशिष्टैक देशत्वेनांशत्वम्, एवमचिद्वस्तुनोऽपि “आत्मैवेदं सर्वम्” इति चिदचितोरेकेनैव शब्देनैक्याभिधानमित्यंशत्व मप्येकरूपमिति (एकरूपमेवेति m3.) ‘पूर्ववद्वा’ इत्युक्तम् । (अवस्थाभेदयोगपक्षे एकजातियोगपक्षे चेत्यर्थः ।) इतरपक्षयोर्ब्रह्मणः सदोषतादि दुर्वारमित्यर्थः । “यस्य पृथिवी शरीरम्”, “यस्यात्मा शरीरम्” इति चिदचिद्वस्तुनोः शरीरतया तद्विशेषणस्वभावता (तद्विशेषणता M2.) सिद्धा ॥

सू - प्रतिषेधाच्च ॥ (3-2-29) ॥
“नास्य जरयैतज्जीर्यति (जीर्यते A1, M1,3)” इत्यादिनाचिद्धर्मप्रतिषेधाच्चैवम् ॥