11 उभयलिङ्गाधिकरणम्

॥ उभयलिङ्गाधिकरणम् ॥
सू - न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ (3-2-11) ॥
जागरादिषु (अवस्धास्वन्तरात्मतया समत्वेन स्थितेरपि M1, तत्सृष्टवस्त्वन्तर्यामित्वेन A1.) चतसृष्ववस्थास्वन्तर्यामित्वेन स्थितेरपि परस्य ब्रह्मणो न कश्चन दोषः । यतः सर्वत्र श्रुतिस्मृतिषु (निरस्तनिखिलदोषसंबन्धत्व M2, pr.) निरस्तनिखिल दोषत्वसमस्तकल्याणगुणाकरत्वरूपोभयलिङ्गं परं ब्रह्म श्रुतम् - “अपहतमाप्मा सत्यसंकल्पः”, “निरवद्यम्”, “यः सर्वज्ञः सर्ववित्” “समस्तकल्याणगुणात्मकोऽसौ” “सकला न यत्र क्लेशादयः सन्ति” इत्यादिषु ॥

सू - भेदादिति चेन्न, प्रत्येकमतद्वचनात् ॥ (3-2-12) ॥
जीवस्य स्वतोऽपहतपाप्मनोऽपि शरीरसंबन्धित्वावस्थाभेदाद्यथा दोषसंबन्धः, तथा परस्यापि “यस्य पृथिवी शरीरम्” इत्यादिशरीरसंबन्धित्वात् दोष इति चेत्; न, “यस्य पृथिवी शरीरम्” इत्यादिषु प्रतिपर्यायं “स त आत्मान्तर्याम्यमृतः” इति निर्दोषत्ववचनात् ॥

सू - अपि चैवमेके ॥ (3-2-13) ॥
एकस्मिन् शरीरेऽवस्थितयोर्जीवपरयोर्यो विशेष उक्तः; एवमेके स्वशब्देनाधीयते - “द्वा सुपर्णा” इत्यारभ्य “पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति” इति ॥

सू - अरूपवदेव हि, तत्प्रधानत्वात् ॥ (3-2-14) ॥
मनुष्यादिशरीरेषु शरीरित्वेऽपि रूपरहितवस्तुवदेव वर्तते तत् ब्रह्म, (जीवनामरूपयोरपि M2,3,pr.) नामरूपयोर्निर्वोढृत्वेन प्रधानत्वात् । तथाहि श्रुतिः - “नामरूपयोर्निर्वहिता ते यदन्तरा” इति । नामरूपयोरन्तरा अस्पृष्टो मध्ये वर्तते । अवश्य इत्यर्थः ॥

सू - प्रकाशवच्चावैयर्थ्यात् ॥ (3-2-15) ॥
यथा “सत्यं ज्ञानम्” इति वाक्यावैयर्थ्यात् स्वप्रकाशतया ज्ञानस्वरूपं ब्रह्म, तथा “निरवद्यम्” “यः सर्वज्ञः सर्ववित्”, “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इत्यादिपरःशतवाक्यावैयर्थ्यात् निरवद्यं कल्याणगुणाकरं चेत्युभयलिङ्गमेव ॥

सू - आह च तन्मात्रम् ॥ (3-2-16) ॥
“सत्यं ज्ञानम्” इति ज्ञानस्वरूपतामात्रमाह । नान्यन्निवारयति । अविशेषात् । विरोधाभावाच्च ॥

सू - दर्शयति चाथो अपि स्मर्यते ॥ (3-2-17) ॥
दर्शयति च निर्दोषत्वं कल्याणगुणाकरत्वं च वेदान्तगणः “निष्कलं निष्क्रियं शान्तम् (शान्तम् omitted M3.)” “तमीश्वराणां परमं महेश्वरम्” इत्यादिः । “यो मामजमनादिम्” इत्यादिना स्मर्यते च तत् ॥

सू - अत एव चोपमा सूर्यकादिवत् ॥ (3-2-18) ॥
यतः पृथिव्यादौ (सर्वत्रावस्थितस्यापि A1.) सर्वत्र स्थितस्यापि निर्दोषत्वं कल्याणगुणाकरत्वं च, अत एव शास्रेषु (जलसूर्याकाशादिवत् A1) जलसूर्यकादिवदित्युपमा, “आकाशमेकं हि यथा”, “जलाधारेष्विवांशुमान्” इति ॥

चोदयति -
सू - अम्बुवदग्रहणात्तु न तथात्वम् ॥ (3-2-19) ॥
अम्बुनि सूर्यो यथा गृह्यते, न तथा परमात्मा पृथिव्यादौ । अत्र परमार्थतः स्थितः । अतो न निर्दोषत्वमिति (इति omitted M3.) ॥

परिहरति -
सू - वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसाम़ञ्जस्यादेवं दर्शनाच्च ॥ (3-2-20) ॥ नेति वर्तते (अनुवर्तते A1.) । नैवम् । पृथिव्यादिष्वन्तर्भावात् परस्य तद्गतवृद्धिह्रासभाक्त्वमात्रं (मात्रं omitted M2,pr ) दृष्टान्तेन निवर्त्य (इति दृष्टान्तद्वयोपादान A1.) इत्युभयदृष्टान्तोपादानसामञ्जस्यादवगम्यते । “आकाशमेकं हि यथा” इति वस्तुतः स्थितमाकाशं वस्तुतोऽनवस्थितं च सूर्यकमुभयमुपादत्ते, अनवस्थितस्य (अस्थितस्य A1,M2) यथा न दोषस्पर्शस्तथा स्थितस्यापि हेत्वभावादिति ज्ञापयितुम् । विवक्षितधर्मसाम्यज्ञापनाय ‘सिंह इव’ इति दृश्यते ।
अथवा - दर्शनाच्चेति । “अश्व इव रोमाणि विधूय पापम्” इत्यादौ, विवक्षितधर्मसाम्यान्वयो (साम्यं A 1) हि दार्ष्टान्तिके दृश्यते । अश्वो हि रोमाणि सहजानि (स्वभव A1) स्वावयवभूतानि मूर्तद्रव्याणि (स्व omitted A1) स्वशरीरं कम्पयन् कानिचिन्मुञ्चति । आत्मा तु स्वेन कदाचिदनुष्ठितानि क्षणध्वंसितया विनष्टानि कर्माणि भगवदप्रीतिकराणीति भगवता (स्वाप्रीतिकर M3) स्वाप्रीतिकृतदुःखानि दातुं प्रवृत्तेन उपासनप्रीतिकृतानुगृहात् निवर्तितानीति तत्संपर्काभावमनुसंदधातीति ॥

सू - प्रकृतैतावत्त्वं हि प्रतिषेधति; ततो ब्रवीति च भूयः ॥ (3-2-21) ॥
“अथात आदेशो नेति नेति” इति सकलविशेषप्रतिषेधात् नोभयलिङ्गमित्यत (इत्यत्राह M1) आह - “द्वे वाव ब्रह्मणो रूपे” इत्यारभ्य कृत्स्नप्रपञ्चस्य ब्रह्मणो रूपत्वेनाप्रज्ञातस्य रूपत्वमुपदिश्य पुनस्तस्यैव प्रतिषेधासंभवात् प्रकृतैतावन्मात्रं न भवति ब्रह्मेति ब्रह्मणः प्रकृतेयत्तां “नेति नेति” इति प्रतिषेधति । ततः पश्चात् पूर्वमनुक्तं गुणगणं ब्रवीति च - “न ह्येतस्मादिति नेत्यन्यत्परमस्ति” इति । ‘इति’ इति निर्दिष्टाद्ब्रह्मणोऽन्यन्न ह्यस्त्युत्कृष्टम् । “अथ नामधेयं सत्यस्य सत्यम्” इति च । तन्निर्वचनम् - “प्राणा वै सत्यं तेषामेष सत्यम्” इति । प्राणा (जीवाः M2.) जीवात्मानः, वियदादिवत् उत्पत्त्यभावात् सत्यम् । तेभ्योऽप्येष सत्यम्, ज्ञानसंकोचाद्यभावात् । अतः (मात्र omitted A1,pr.) प्रकृतेयत्तामात्रप्रतिषेधादुभयलिङ्गमेव ब्रह्म (ब्रह्म omitted A1, M1,pr.) ॥

सू - तदव्यक्तमाह हि ॥ (3-2-22) ॥
प्रत्यक्षेण सन्मात्रं ब्रह्मैव गृह्यते; अन्यत् सर्वं भ्रान्तमिति “नेति नेति” इति निषेधार्थ (इत्यत्राह M1.) इत्यत आह - ब्रह्मस्वरूपं न केनापि प्रमाणेन व्यज्यते । तथाह हि श्रुतिगणः - “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्” इत्यादिः । प्रत्यक्षादिना तु (पटादेः M1,2,pr.) घटादेरेवास्तित्वं गृह्यते, न ब्रह्मणः ॥

सू - अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ (3-2-23) ॥
अपि चात्यर्थप्रियानुध्यानरूपसम्यक् प्रीणने सति ब्रह्मस्वरूपं गृह्यत इति श्रुतिस्मृतिभ्यामवगम्यते । “नायमात्मा प्रवचनेन लभ्यः” इति श्रुतिः । “नाहं वेदैः” इत्यादिः स्मृतिः ॥

सू - प्रकाशादिवच्चावैशेष्यम् ; प्रकाशश्च कर्मण्यभ्यासात् ॥ (3-2-24) ॥
संराधनकर्मण्यभ्यासाद्येषां ब्रह्मस्वरूपदर्शनं जातं तद्दर्शने ज्ञानानन्दादेरिव (जगदैश्वर्यस्यावैशेष्यं) जगदैश्वर्यस्याप्यवैशेष्यं प्रतीयते “अहं मनुरभवं सूर्यश्च” इत्यादौ ॥

सू - अतोऽनन्तेन; तथाहि लिङ्गम् । (3-2-25) ॥
अतो “द्वे वाव ब्रह्मणो रूपे” इत्यादिनोपदिष्टेनानन्तेन कल्याणगुणगणेन योगो ब्रह्मणः सिद्धः । तथा सत्युभयलिङ्गमेव ब्रह्म ॥