॥ मुग्धाधिकरणम् ॥ सू - मुग्धेऽर्धसम्पत्तिः परिशेषात् (परिशेषणात् M1.) ॥ (3-2-10) ॥ मूर्छिते पुरुषे यावस्था, सा मरणाय अर्धसंपत्तिरिति हेतुभेदादाकारभेदात् । अपुनरुत्थाननियमाभावाच्च ज्ञायते ॥