09 कर्मानुस्मृतिशब्दविध्यधिकरणम्

॥ कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥
सू - स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ (3-2-9) ॥
सता संपन्नोऽपि (सुप्तः M1,2.pr) सुषुप्त एव प्रबुद्ध उत्तिष्ठति । ज्ञानवैधुर्येण कृतस्य कर्मणस्तेनानुभाव्यत्वात् । पूर्वानुभूतप्रत्यभिज्ञानात् । “त इह व्याघ्रो वा” इत्यादि “यद्यद्भवन्ति तथा भवन्ति” इति शब्दात् । मोक्षोपायविध्यानर्थक्याच्च ॥