08 तदभावाधिकरणम्

॥ तदभावाधिकरणम् ॥
सू - तदभावो ना़डीषु तच्छ्रुतेरात्मनि च ॥ (3-2-7) ॥
स्वप्नाभावः सुषुप्तिः “आसु तदा नाडीषु सुप्तो भवति” “सता सोम्य तदा संपन्नो भवति” इति श्रुतेर्नाडीषु परमात्मनि च (च omitted pr); “पुरीतति शेते” इति श्रुतेः पुरीतति च । प्रासादखट्वापर्यङ्कवदविरोधः ॥

सू - अतः प्रबोधोऽस्मात् ॥ (3-2-8) ॥
“सत आगम्य न विदुः” इति ब्रह्मणः प्रबोधश्रुतिरत एव ॥