॥ सन्ध्याधिकरणम् ॥
सू - सन्ध्ये सृष्टिराह हि ॥ (3-2-1) ॥
सन्ध्ये - स्वप्ने, “अथ रथान् रथयोगान् (पथः सृजते omitted M2,pr) पथः सृजते” इत्यादिनाभिहिता सृष्टिर्जीवकृता । “पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता” इति स्वप्नदृशं जीवमेव कर्तारमाह हि (हि omitted M1,pr) श्रुतिः ॥
सू - निर्मातारं चैके पुत्रादयश्च ॥ (3-2-2) ॥
“य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः” इति, एनं (From एनं to अधीयते omitted M1,2.) जीवं स्वाप्नार्थनिर्मातारमेके शखिनोऽधीयते । अत्र कामशब्दनिर्दिष्टाः काम्यमानतया पुत्रादयः, पूर्वत्र “सर्वान् कामांश्छन्दतः” इति (इत्युक्त्वा M1,pr.) कामशब्दस्य “शतायुषः पुत्रपौत्रान्” इति विवृतत्वात् ॥
सू - मायामात्रं तु, कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ (3-2-3) ॥
स्वप्ने (या omitted M1,) या रथादिसृष्टिः, तदिदमीश्वरकृतं मायामात्रम् । (स्वप्नदृशैकेन M1) स्वप्नदृशैवानुभाव्यं, तत्कालमात्रावसानम् इत्याश्चर्यतया मायेत्युक्तम् । जीवस्य (सत्यसंकल्पादि M1.) सत्यसंकल्पत्वादिकं
स्वाभाविकं स्वरूपं संसारदशायां कार्त्स्न्येन अनभिव्यक्तमिति न तस्य संकल्पमात्रात् सृष्टिरुपपद्यते । “स हि कर्ता”, “पुरुषो निर्मिमाणः” (च omitted M1,2. Pr.) इति च न जीवविषयम्, “तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन (तदु नात्मेति कश्चन omitted A1,M1.Pr)” इति वचनात् ॥
(स्वाभाविकत्वे A1) स्वाभाविकस्य अनभिव्यक्तौ हेतुमाह (अनभिव्यक्तिमाह M2.) -
सू - पराभिध्यानात्तु तिरोहितम्; ततो ह्यस्य बन्धविपर्ययौ ॥ (3-2-4) ॥ जीवस्यानाद्यपचारप्रवाहेण पराभिध्यानादेव तिरोहितम्, तदपचारात् तदनुवृत्तेर्हि ततो ह्यस्य बन्धमोक्षौ, (विपर्ययौ M3.Pr) “अथ तस्य भयं भवति”, “अथ सोऽभयं गतो भवति” इति श्रुतेः ॥
सू - देहयोगाद्वा सोऽपि ॥ (3-2-5) ॥
सोऽपि तिरोभावोऽपि (अपि omitted M1,2.pr.) देवमनुष्यादिदेहाकाराचिद्योगात् सृष्टिवेलायाम् । नामरूपविभागानर्हसूक्ष्माकाराचिद्योगात् प्रलये ॥
सू - सूचकश्च हि श्रुतेः आचक्षते च तद्विदः ॥ (3-2-6) ॥
“अथ स्वप्ने पुरुषं कृष्णम् (कृष्णदन्तम् added A1)” इत्यादिश्रुतेः शुभाशुभसूचकश्च हि स्वप्नः । स्वप्नविदश्चाचक्षते तत् (तत् omitted M3.) । अतो न जीवः स्रष्टा स्वाप्नार्थानाम् ॥