॥ अन्याधिष्ठिताधिकरणम् ॥
सू - अन्याधिष्ठिते पूर्ववदभिलापात् ॥ (3-1-24) ॥
“त इह ब्रीहियवाः” इत्यादौ चान्यजीवाधिष्ठिते व्रीहियवादौ संश्लेषमात्रम्, अवरोहत आकाशादिष्विव (जन्महेतु M2, जनिहेतु A1) जननहेतुविरहिताभिलापात् । “जायन्ते” इति वचनमौपचारिकम् । यत्र ब्राह्मणादिजन्मास्ति, तत्र “रमणीयचरणाः” इति हि (हि omitted M3.) हेतुरभिलप्यते ॥
सू - अशुद्धमिति चेन्न, शब्दात् ॥ (3-1-25) ॥
अवरोहतः पूर्वानुष्ठितयागादिषु अग्नीषोमीयादिहिंसागर्भत्वेन अशुद्धं कर्मास्तीति चेत्; न, “हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति” “न वा उ वेतन्म्रियसे न रिष्यसि” इति पशुसंज्ञपनस्याहिंसात्वशब्दात् ॥
सू - रेतःसिग्योगोऽथ ॥ (3-1-26) ॥
“यो यो ह्यन्नमत्ति यो रेतः सिञ्चति” इति अन्नेन संसृष्टस्य रेतःसिचा योगमात्रमनन्तरमुच्यते । अतः पूर्वमपि व्रीह्यादियोगमात्रम् ॥
सू - योनेः शरीरम् ॥ (3-1-27) ॥
योनिप्रात्तेः पश्चादेवावरोहता शरीरं प्राप्यते ॥