॥ नातिचिराधिकरणम् ॥ सू - नातिचिरेण विशेषात् ॥ (3-1-23) ॥ व्रीह्यादिप्राप्तेः प्रागाकाशादिषु नातिचिरं तिष्ठति । “(अतो ह वै M) अतो वै खलु दुर्निष्प्रपतरम्” इति व्रीह्यादावेव विशेषवचनात् ॥