03 अनिष्टादिकार्यधिकरणम्

सू - अनिष्टादिकारिणामपि च श्रुतम् ॥ (3-1-12) ॥
इष्टापूर्ताद्यकुर्वतामपि चन्द्रगमनमस्ति । “ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (सर्वे गच्छन्ति omitted M 1, Pr.)” इत्यविशेषात् ॥

सू - संयमने त्वनुभूयेतरेषामारोहावरोहौ, तद्गतिदर्शनात् ॥ (3-1-13) ॥
इष्टापूर्ताद्यकुर्वतां यमसदने तत्फलमनुभूय आरोहादि । (आरोहादिः, A1,Mpr. ) “वैवस्वतं संगमनम्” इत्यादौ तद्गतिदर्शनात् ॥

सू - स्मरन्ति च ॥ (3-1-14) ॥
“सर्वे चैते वशं यान्ति यमस्य” इत्यादि (इति M1. Pr) ॥

सू - अपि सप्त ॥ (3-1-15) ॥
सप्त रौरवादीनपि स्मरन्ति ॥

सू - तत्रापि तद्व्यापारादविरोधः ॥ (3-1-16) ॥
तत्रापि यमव्यापारादेव यमवश्यताया अविरोधः ॥

सू - विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ (3-1-17) ॥
विद्याकर्मणोः फलं ब्रह्मगमनं चन्द्रगमनं च । कथम् ? “तद्य इत्थं विदुस्तेऽर्चिषमभिसंभवन्ति” “य (ये omitted M1,Pr.) इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति” इति प्रकृतत्वात् ब्रह्मचन्द्रगमनयोः । अतः पापिनां न तद्गतिप्रसङ्गः ॥

सू - न तृतीये, तथोपलब्धेः ॥ (3-1-18) ॥
न च पापिनां द्युलोकगमनाय (देहारम्भाय द्युलोकगमनापेक्षा M1) चन्द्रलोकगमनापेक्षा (चन्द्रलोकगमनापेक्षा omitted M1.), तेषां द्युलोकगमनाभावोपलब्धेः “अथैतयोः पथोर्न कतरेणचन (कतरेण च pr. कश्चन, केचनेत्यादिवत् कतरेणचनेति निर्देशो ज्ञातव्यः.)” इत्यारभ्य “एतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते” इति । तृतीयस्थानमिति (स्थानं हि M1) पापकर्माण (पापकर्मिणः M2.) उच्यन्ते ॥

सू - स्मर्यतेऽपि च लोके ॥ (3-1-19) ॥
लोके च द्रौपद्यादीनां पुण्यकर्मणामपि (अपि omitted M3,) पञ्चमाहुत्यनपेक्षदेहारम्भः (पञ्चमाहुत्यनपेक्षा देहारम्भे M1) स्मर्यते ॥

सू - दर्शनाच्च ॥ (3-1-20) ॥
(तथाच M.3.) तथा श्रुतावपि दृश्यते “भूतानां त्रीण्येन बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जम्” इति स्वेदजोद्भिज्जयोस्तदनपेक्षत्वम् ॥

सू - तृतीयशब्दावरोधः संशोकजस्य ॥ (3-1-21) ॥
स्वेदजस्योद्भिज्जशब्देन संग्रह इत्यर्थः ॥