॥ कृतात्ययाधिकरणम् ॥
सू - कृतात्ययेऽनुशयवान् द्दष्टस्मृतिभ्यां यथेतमनेवं च ॥ (3-1-8) ॥
कृतस्य कर्मणोऽन्ते निवर्तमानो भुक्तशिष्टकर्मवान्निवर्तत इति श्रुतिस्मृतिभ्यामवगम्यते । “रमणीयचरणा रमणीयां योनिमापद्यन्ते” इति श्रुतिः । “ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपम्” इत्यादिका स्मृतिः । (आरोहप्रकारेण pr.) आरोहणप्रकारेण मार्गैकदेशे,(देशःA1,Pr) प्रकारान्तरेण चैकदेशे (देशः A1,Pr.) ॥
सू - चरणादिति चेन्न, तदुपलक्षणार्थेति कार्ष्णाजिनिः ॥ (3-1-9) ॥
“रमणीयचरणाः” इति चरणशब्दान्न सानुशयः, (अनुशयः pr.) चरणशब्दस्य स्मार्ताचारविषयत्वादिति चेत्; अनुशयोपलक्षणार्था (आचार M1.Pr) चरणश्रुतिः, तस्यैव (सुखसाधनत्वात् A1, M1,Pr.) सुखदुःखसाधनत्वात् ॥
सू - आनर्थक्यमिति चेन्न, तदपेक्षत्वात् ॥ (3-1-10) ॥
स्मार्ताचारस्यानुपयोगात् आनर्थक्यमिति चेत्; न, तदपेक्षत्वात् सर्वस्य पुण्यकर्मणः; “संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु” इति वचनादिति कार्ष्णाजिनिमतम् ॥
सू - सुकृतदुष्कृते एवेति तु बादरिः ॥ (3-1-11) ॥
‘रमणीयचरणाः’ इति चरणशब्देन सुकृतदुष्कृते एवाभिधीयेते, (अभिधेये M 1) “पुण्यं कर्माचरति” इति प्रसिद्धेरिति (भगवान् बादरिः M1.) बादरिः । एतदेव स्वीकृतम् । स्मार्ताचारापेक्षं सर्वं पुण्यं कर्मेति च स्वीकृतम् ॥