सू - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥(3-1-1) ॥
जीवो (देहात् omitted M1) देहादेहान्तरप्राप्तौ (प्रतिपत्तौ A1,M1) भूतसूक्ष्मैः संपरिष्वक्तो यातीति पञ्चाग्निविद्यायां प्रश्नप्रतिवचनाभ्यामवगम्यते । “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति प्रश्नः, “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति प्रतिवचनम् । (तयोः omitted M2,pr.) तयोरुत्तरैः सूत्रैरर्थोऽभिव्यज्यते । स चायमर्थः - जीवो ब्राह्मणादिदेहस्थो (स्वाहा M2, pr) यागदानादिकर्मकृत् (कृत्वा M1) (तत्फल, A1,M1.) तत्तत्फलभोगाय अस्माद्देहादुत्थाय (स्वाद्देहादुत्थाय M1) गच्छन्, एतद्देहार्थाभिः भूतान्तरसंसृष्टाभिः सूक्ष्माकाराभिरद्भिः (सं Omitted ओ1,श2) संपरिष्वक्तः अग्नित्वेन (निरूपित M3, निरूपितं pr.) रूपितं द्युलोकं (प्राप्ताभिः A1.) प्राप्य, ताभिरेवामृतमयदेहाकारपरिणताभिरद्भिः परिष्वक्तो देवानां (शेषभावं A1,M1.) शेषत्वमुपगम्य, तैः सह तत्र भोगमनुभूय, कर्मावसाने भुक्तशिष्टब्रह्मणादियोनिप्रापककर्मणा सह पुनरपीमं (कर्म Omitted M1,2.) कर्मलोकमागत्य, (आगत्य, M1,pr) कर्म कर्तुं, ताभिः परिष्वक्तः अग्नित्वरूपितं पर्जन्यं प्राप्य, वर्षधाराभिः सहाग्नित्वरूपितां (निरूपितां A1, निरूपितपृथिवी Pr.) पृथिवीमुपगम्य, व्रीह्यादिसस्येन संयुज्य, अन्नाकारपरिणतेन (परिणताभिः सह M1.) तेन सहाग्नित्वरूपितं पुरुषं प्राप्य, तत्र शुक्लाकारपरिणताभिः ताभिरद्भिः (ताभिः omitted A1.) परिष्वक्तः अग्नित्वरूपितां (निरूपितां A.1,Pr.) योषितं प्राप्य, तत्र गर्भाकारपरिणताभिः ताभिरद्भिः (ताभिरद्भिः omitted M 2,3.) पुरुषशब्दाभिलपनीयाभिः परिष्वक्तः कर्मानुरूपं ब्राह्मणादिरूपेण जायत इति ॥
सू - त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ (3-1-2) ॥
सर्वस्य त्रिवृत्करणेन त्र्यात्मकत्वाद्भूतान्तरसंसृष्टा एवापो भूयस्त्वेनाप्शब्देनोच्यन्ते ॥
सू - प्राणगतेश्च ॥ (3-1-3) ॥
“प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इति जीवेन सहेन्द्रियगतेस्तदाश्रयत्वेन देहगमनं प्रतीयते (M2, adds after ‘स्मर्यते च मनःषष्ठानीन्द्रियाणीत्यादिना ।’) ॥
सू - अग्न्यादिगतिश्रुतेरिति चेन्न, भाक्तत्वात् ॥ (3-1-4) ॥
“अग्निं वागप्येति” इतीन्द्रियाणामग्न्यादिगतिश्रुतेर्न जीवेन सह (सह omitted A1,Pr) गमनमिति चेत्; न, वागाद्यभिमानिदेवतासु भाक्तत्वाद्वागादिशब्दानाम्; “ओषधीर्लोमानि” इत्यनपियद्भिर्लोमादिभिः सह पाठात् ॥
सू - प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः ॥ (3-1-5) ॥
प्रथमे (द्युलोके,M1.pr: द्युलोकाग्नौ M1) द्युलोकाग्निहोमेऽपामश्रवणान्नापो गच्छन्ति; “एतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति” इति श्रद्धैव (श्रूयत इति M 1.) श्रुतेति चेत् ; न ; आप एव श्रद्धाशब्देनोच्यन्त इत्यप्सु पृष्टासु तदुत्तरत्वोपपत्तेर्गम्यते । “श्रद्धा वा आपः” इति हि (हि omitted M1, pr) श्रूयते ॥
सू - अश्रुतत्वादिति चेन्न, इष्टादिकारिणां प्रतीतेः ॥ (3-1-6) ॥
अत्र प्रश्नप्रतिवचनयोराप एव प्रतीयन्ते; न तत्परिष्वक्तो जीव इति चेत्; न, उत्तरत्र “अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते” इत्यादाविष्टादिकारिणां गमनप्रकारवचनात् । द्युलोकाग्निसंबन्ध्यप्शब्दवाच्यस्य “तस्या आहुतेः सोमो राजा संभवति” इति सोमभूतस्यैव “सोमो राजा” इति प्रत्यभिज्ञानादद्भिः परिष्वक्तस्तच्छरीरक एवाप इत्युच्यत इत्यवगम्यते ॥
सू - भाक्तं वाऽनात्मवित्त्वात्; तथाहि दर्शयति ॥ (3-1-7) ॥
“एष सोमो राजा; तं देवा भक्षयन्ति” इति सोमापन्नस्य देवैर्भक्ष्यमाणत्ववचनं भाक्तम्; अनात्मवित्वेन देवोपकरणत्वाभिप्रायम् ।
तथाहि श्रुतिः - “यथा पशुरेवं स देवानाम्” इति पशुवद्देवोपकरणत्वं दर्शयति । तथात्मविदामनात्मविदां च परमपुरुषोपकरणत्वं देवोपकरणत्वं च स्मर्यते “देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि” इति ॥