33 संज्ञामूर्तिकॢप्त्यधिकरणम्

२८५। संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥
देवादिनामरूपव्यष्टिसृष्टिः चतुर्मुखशरीरकात् परमात्मन एव, न केवलचतुर्मुखात्; “नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” इति त्रिवृत्करणं कुर्वतो नामरूपव्याकरणोपदेशात् । त्रिवृत्करणं तु केवलचतुर्मुखस्य न संभवति, त्रिवृत्कृतैस्तेजोबन्नैरण्डमुत्पाद्य पश्चाच्चतुर्मुखसृष्टिः, “तदण्डमभवद्धैमम् .. तस्मिञ्जज्ञे स्वयं ब्रह्मा” इत्यादिस्मृतेः ॥१७॥

२८६। मांसादि भौमं यथाशब्दमितरयोश्च ॥
अन्नमशितं त्रेधा विधीयते इत्यत्र प्रागुक्तत्रिवृत्करणादर्थान्तरभूतः अण्डान्तर्वर्तिपुरुषभुक्तान्नादीनां परिणामप्रकार उच्यते । अन्यथा मांसमनसोः पुरीषादणीयस्त्वेनाप्यत्वतैजसत्वप्रसक्तिः । तथा सति “अन्नमशितं त्रेधा” इति भूमेरेव त्रिधात्वोपक्रमः, “अन्नमयं हि सोम्य मनः” इति मनसो भौमत्वं च विरुध्यते । तथेतरयोः अप्तेजसोः त्रैविध्यं विरुध्यते । तदिदमाह - मांसादिभौमं यथा शब्दमितरयोश्च इति । पुरीषवन्मांसमनसी अपि भौमे इतीहोच्यते । तथा
मूत्रवल्लोहितप्राणावप्याप्यौ । तथा अस्थिवन्मज्जावाचौ तैजसे(स्यौ) ॥१८॥

पूर्वमेव त्रिवृत्कृतं चेत्, त्र्यात्मकं वस्तु कथमन्नमापस्तेज इत्युच्यत इत्यत्राह -
२८७। वैशेष्यात्तु तद्वादस्तद्वादः ॥
अन्नादिभूयस्त्वेन वैशेष्यादन्नादिवादः ॥१९॥
इति संज्ञामूर्तिकॢप्त्यधिकरणम् ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयस्याध्यायस्य चतुर्थः पादः ।
समाप्तश्चाध्यायः ॥