32 इन्द्रियाधिकरणम्

२८३। त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥
श्रेष्ठादन्यत्र ये प्राणाः त इन्द्रियाणि, तेष्वेवेन्द्रियव्यपदेशात् । “इन्द्रियाणि दशैकं च” इत्यादि ॥१५॥

२८४। भेदश्रुतेर्वैलक्षण्याच्च ॥
“एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च” इति भेदेनोत्पत्तिश्रुतेः, इन्द्रियवृत्त्युपरमेऽपि प्राणवृत्त्यनुपरमवैलक्षण्याच्च ॥१६॥
इति इन्द्रियाधिकरणम् ॥७॥