31 ज्योतिराद्यधिष्ठानाधिकरणम्

२८१। ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥
जीवेन सह अग्न्यादेः इन्द्रियाद्यधिष्ठानं परमात्मसङ्कल्पादेव भवति । “योऽग्नौ तिष्ठन् .. योऽग्निमन्तरो यमयति” इत्यादिशब्दात् ॥१३॥

२८२। तस्य च नित्यत्वात् ॥
सर्वस्य तन्नियाम्यत्वनियमात् ॥१४॥
इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥६॥