२७६। न वायुक्रिये पृथगुपदेशात् ॥
पञ्चवृत्तिप्राणः न वायुमात्रम्, तत्क्रिया वा । एतस्माज्जायते प्राणः । खं वायुरिति पृथगुपदेशात् ॥८॥
२७७। चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥
वायोः पृथग्भूतोऽयम्, नाग्न्यादिवत् भूतान्तरम् । वायुरेव देहधारणयोग्याकारमापन्नः चक्षुरादिवत् जीवोपकरणम् । चक्षुरादिभिस्सह उपदेश-तत्तुल्योपकार-तन्मुख्यत्वेभ्यः ॥९॥
२७८। अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥
करणम् - क्रिया । न जीवोपकाररूपक्रियारहितत्वे दोषः । यतः श्रुतिरेव देहेन्द्रियाद्यशैथिल्यकरणं दर्शयति । प्राणोत्क्रमणे
देहेन्द्रियादिशैथिल्याभिधानात् ॥१०॥
२७९। पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥
प्राण एक एव स्ववृत्तिभिः पञ्चभिः प्राणापानादिनामभाग्भवति । कामादिभिर्यथैकमेव मनः “कामः संकल्पः” इत्यारभ्य “एतत्सर्वं मन एव” इति ॥११॥
इति वायुक्रियाधिकरणम् ॥४॥