26 प्राणोत्पत्त्यधिकरणम्

॥ अथ द्वितीयाध्याये चतुर्थः पादः ॥
२६९। तथा प्राणाः ॥
यथा जीवोत्पत्तिः नित्यत्वश्रुतेर्नोपपद्यते । तथेन्द्रियाण्यपि, असद्वा इदमग्र आसीत्, ऋषयो वाव तेऽग्रे सदासीत् ॥ प्राणा वाव ऋषयः इति प्रलयकाले प्राणानां स्थित्युपदेशात् ॥१॥

२७०। गौण्यसंभवात्तत्प्राक्छ्रुतेश्च ॥
तस्य परमात्मन एव सृष्टेः प्रागवस्थानश्रुतेः ऋषिशब्दः प्राणशब्दश्च परमात्मन्येव । बहुत्वासंभवात्, बहुवचनश्रुतिर्गौणी ॥२॥

२७१। तत्पूर्वकत्वाद्वाचः ॥
परमात्मनः सृष्टिपूर्वकत्वात् इतरेषां नामयोगस्य, तदानीं प्राणशब्दो नेन्द्रियविषयः ॥३॥
इति प्राणाधिकरणम् ॥१॥