२५८। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके - जीवात्मा
परमपुरुषांशः। पृथगात्मनं प्रेरितारं च मत्वा, स कारणं करणाधिपाधिपः इत्यादिनाव्यपदेशात्,
अन्यथा, तत्त्वमसि, अयमात्मा ब्रह्म इति ऐक्योपदेशाच्च । ब्रह्मदाशाः इत्यादिना सर्वजीवव्याप्त्या
ऐक्यमधीयत एके, अंशत्वाभ्युपगमे ह्युभयं मुख्यं भवति॥४२॥
२५९। मन्त्रवर्णात् - पादोऽस्य विश्वा भूतानि इति मन्त्रावर्णाच्च॥४३॥
२६०। अपि स्मर्यते - ममैवांशो जीवलोके जीवभूतस्सनातनः इत्यादिना॥४४॥
२६१। प्रकाशादिवत्तु नैवं परः - ब्रह्मांशत्वेऽपि जीवस्य, जीवो यत्स्वरूपो यत्स्वभावश्च,
नैवं परः - निरवद्यः सर्वज्ञः सत्यसंकल्प एव सर्वदा। कथम्? प्रकाशादिवत् प्रकाशविशिष्टानां
मणिप्रभृतीनां प्रकाशः विशिष्टैकदेशत्वेन यथांशः। आदिशब्दाद्विशेषणतैकस्वभावजातिगुणशरीराणि
गृह्यन्ते। विशेषणानां विशिष्टैकदेशतया तदंशत्वेऽपि विशेषणविशेष्ययोः स्वरूपस्वभावभेदो न विरुद्धः।
य आत्मनि तिष्ठन्यस्यात्मा शरीरम् इति हि श्रुतिः॥४५॥
२६२। स्मरन्ति च - चिदचिदात्मकजगतो ब्रह्मांशत्वं प्रकाशादिवदिति पराशरादयः स्मरन्ति।
एक देशस्थितस्याग्नेः ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत् ॥
तत्सर्वं वै हरेस्तनुः, तानि सर्वाणि तद्वपुः इत्यादिषु॥४६॥
२६३। अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् - ब्रह्मांशत्वेऽपि सर्वजीवानां कस्य
चिद्वेदाध्ययनादौ अनुज्ञा कस्य चित्परिहारः इत्येतौ ब्राह्मणादिदेहविशेषसंबन्धादुपपद्येते। यथाऽग्न्यादेः
श्रोत्रियागारश्मशानादिसंबन्धात्॥४७॥
२६४। असन्ततेश्चाव्यतिकरः - प्रतिदेहं भिन्नत्वात् अणुत्वेन तत्र तत्र परिच्छिन्नत्वाच्च
ज्ञानसुखाद्यव्यतिकरः। अज्ञानोपाधिभ्यां ब्रह्मैव संबध्यते इति पक्षद्वयेऽपि न तत्तद्व्यवस्था॥४८॥
२६५। आभास एव च - पक्षद्वयेऽपि हेतवश्च आभासाः॥४९॥
२६६। अदृष्टानियमात् - सत्यमिथ्योपाधिकृतत्वेऽपि आत्मनां ब्रह्मण एव अज्ञानमुपाधिश्चेति
तत्तत्कृतेनादृष्टादिनाऽपि न नियमः॥५०॥
२६७। अभिसन्ध्यादिष्वपि चैवम् - अदृष्टहेतुभूताभिसन्ध्यादिष्वपि चैवमेव॥५१॥
२६८। प्रदेशभेदादिति चेन्नान्तर्भावात् - उपाधिसंबन्धिब्रह्मप्रदेशभेदात् व्यवस्थेति चेन्न, उपाधिषु
गच्छत्सु सर्वप्रदेशानां तदन्तर्भावात्॥५२॥ इति अंशाधिकरणम् ॥ ७ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयस्याध्यायस्य तृतीयः पादः॥