२५६। परात्तु तच्छ्रुतेः - य आत्मानमन्तरो यमयति इत्यादि श्रुतेरात्मनः कर्तृत्वं परायत्तम्,
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च इत्यादिस्मृतेश्च॥४०॥
२५७। कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्यः - जीवः स्वेच्छया प्रवृत्तिनिवृत्ति-
हेतुभूतं प्रयत्नं करोति, जीवेन तु कृतं प्रयत्नं प्रथमप्रवृत्तिहेतुमपेक्ष्य तदनुमतिदानेन परः प्रवर्तयति -
इति तद्विधिनिषेधावैयर्थ्यनिग्रहानुग्रहेभ्योऽवगम्यते। यथा गुरुतरदार्वातिभरणमबलः प्रबलसहकृतः कुर्वन्नपि
स्वीयप्रयत्नेन विधिनिषेधयोग्यो भवति, एवमेव जीवः परमपुरुषानुमतिसहकृतः प्रवर्तमानोऽपि विधिनिषेधयोग्य
इति न कश्चिद्विरोधः॥४१॥ इति परायत्ताधिकरणम् ॥ ६ ॥