२४९। कर्ता शास्त्रार्थवत्त्वात् - ज्ञाता सन्नयमात्मा कर्मसु कर्ता च। आत्मनः अकर्तृत्वे,
कुर्यात्, न कुर्यादिति शास्त्रानर्थक्यं स्यात्॥३३॥
२५०। उपादानाद्विहारोपदेशाच्च - प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते
इत्युपादानविहारोपदेशाच्च कर्ता॥३४॥
२५१। व्यपदेशाच्च क्रियायां न चेन्निर्देश विपर्ययः - विज्ञानं यज्ञं तनुते इत्यादिना यज्ञादौ
कर्तृत्वव्यपदेशाच्च कर्ता। विज्ञानशब्दो बुद्धेः, नात्मनः इति चेत्, न, तदा विज्ञानेनेति निर्देशविपर्ययः
स्यात्, बुद्धेः करणत्वात्॥३५॥
२५२। उपलब्धिवदनियमः - प्रकृतेरेव कर्तृत्वे तस्यास्सर्वसाधारणत्वेन पूर्वोपलब्ध्यनियमवत्
फलानियमस्स्यात्॥३६॥
२५३। शक्तिविपर्ययात् - प्रकृतेरेव कर्तृत्वे कर्तुरेव भोक्तृत्वमिति सैव भोक्त्री स्यादित्यर्थः॥३७॥
२५४। समाध्यभावाच्च - प्रकृतेरेव कर्तृत्वे प्रकृतेरन्योऽस्मीति समाध्यभावप्रसङ्गाच्च॥३८॥
२५५। यथा च तक्षोभयथा - आत्मनः कर्तृत्वे, इच्छायां करोति, अन्यथा न करोतीति
व्यवस्था च सिध्यति। यथा तक्षा स्वकार्येषु। बुद्धेरिच्छाभावात् न व्यवस्था। चेतनधर्मत्वादिच्छायाः॥३९॥
इति कर्त्रधिकरणम् ॥