22 ज्ञाधिकरणम्

२३५। ज्ञोऽत एव ॥
अथ यो वेदेदं जिघ्राणीति स आत्मा, मनसैतान् कामान् पश्यन्रमते य एते ब्रह्मलोके इत्यादिश्रुतेः बद्धो मुक्तश्चात्मा ज्ञातैव । मनोऽस्य दैवं चक्षुः इति श्रुतेः स्वधर्मभूतं ज्ञानं मनः ॥१९॥

२३६। उत्क्रान्तिगत्यागतीनाम् ॥
उत्क्रान्तिगत्यागतीनां श्रुतेरणुर्जीवः ॥२०॥

२३७। स्वात्मना चोत्तरयोः ॥
गत्यागत्योस्स्वात्मनैव संपाद्यत्वादप्यणुत्वं निश्चितम् ॥२१॥

२३८। नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥
स वा एष महानज आत्मा इति श्रुतेः नाणुरिति चेत्, न, यस्यानुवित्तः प्रतिबुद्ध आत्मा इति परमात्माधिकारात् ॥२२॥

२३९। स्वशब्दोन्मानाभ्यां च ॥
एषोऽणुरात्मा इत्यणुशब्दात्, आराग्रमात्रो ह्यवरः इत्युद्धृत्य उन्मानशब्दाच्चाणुः ॥२३॥

अणोरपि सकलदेहव्यापिवेदनानुभवे अन्यमतेन हेतुमाह -
२४०। अविरोधश्चन्दनवत् ॥
यथा चन्दनबिन्दुरेकदेशस्थोऽपि सकलदेहव्यापि सुखं जनयति, तद्वदविरोधः ॥२४॥

२४१। अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि - देहदेशविशेषस्थितेश्चन्दनस्येति चेत्,
न, आत्मनोऽपि तदभ्युपगमात्। हृदि ह्ययमात्मा, योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः इति
श्रुतेः॥२५॥ स्वमतेनाह -

२४२। गुणाद्वाऽऽलोकवत् - आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यानुभवति, यथा
मणिप्रभृतयस्स्वकीयेनालोकेन सकलदेशं व्याप्य प्रकाशयन्ति, प्रज्ञामात्रास्वर्पिता इति श्रुतेः॥२६॥
न ज्ञानात्मनोः व्यतिरेक इत्यत्राह -

२४३। व्यतिरेको गन्धवत्तथा च दर्शयति - गन्धवती पृथिवी इतिवत्, अहं जानामि इति
गुणवत्त्वेनोपलब्धेः व्यतिरेकोऽस्ति। दर्शयति च श्रुतिर्व्यतिरेकम् जानात्येवायं पुरुष इति॥२७॥

२४४। पृथगुपदेशात् - आत्मनः पृथक्त्वेन चोपदिश्यते न हि विज्ञातुर्विज्ञातेर्विपरिलोपो
विद्यते इति॥२८॥
योऽयं विज्ञानमय इति ज्ञानमात्रव्यपदेशः कथमित्यत्राह -

२४५। तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् - ज्ञानगुणसारत्वादात्मनो ज्ञानमिति व्यपदेशः,
यथा प्राज्ञस्य विपश्चितोऽपि सत्यं ज्ञानम् इति॥२९॥

२४६। यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् - आत्मस्वरूपानुबन्धित्वात् ज्ञानस्य तेन
व्यपदेशे न दोषः। स्वरूपानुबन्धिधर्मत्वेन गोत्वादीनां खण्डादेः गौरित्यादिव्यपदेशो हि दृश्यते॥३०॥
सुषुप्त्यादिष्वसतो ज्ञानस्य यावदात्मभावित्वं कथमित्यत्राह -

२४७। पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् - सुषुप्त्यादिषु सतो ज्ञानस्यानभिव्यक्तस्यापि
जागरादावभिव्यक्तिसंभवात्। स्वरूपानुबन्ध्येव ज्ञानम्। यथा पुंस्त्वासाधरणसप्तमधातोर्बाल्येऽपि सतो
युवत्वेऽभिव्यक्तिः। जीवात्मनो ज्ञातृत्वमणुत्वं चोक्तम्॥३१॥

२४८। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतर नियमो वाऽन्यथा - अन्यथा ज्ञप्तिमात्रसर्वगतात्मवादे
तावन्नित्यवत् सर्वदोपलब्धिस्स्यात्, संकोचकाभावाद्विद्यमानाया अनुपलब्धेरपि सैव हेतुरिति साऽपि
नित्यवत्स्यात्, ज्ञाने विद्यमानेऽपि हेत्वन्तरेण निवारणासंभवात्। आगन्तुकज्ञानसर्वगतात्मवादेऽपि स
एव दोषः, सर्वात्मनां सर्वगतत्वेन ज्ञानहेतूनां मनस्संयोगादीनां सर्वसाधारणत्वात्। अदृष्टहेतूनामपि
सर्वसाधारणत्वात् तेनापि न नियमः। अथोपलब्ध्यनुपलब्ध्योर्विरोधादुपलब्धेरेवैते हेतवः स्युः, अनुपलब्धेर्वा,
तथा सत्यन्यतरनियमस्स्यात्॥३२॥ इति ज्ञाधिकरणम् ॥ ४ ॥