20 तेजोधिकरणम्

२२६। तेजोऽतस्तथा ह्याह ॥
तेजः वायोरेवोत्पद्यते न साक्षाद्ब्रह्मणः, वायोरग्निः इत्याह ॥१०॥

२२७। आपः ॥
अग्नेरापः इति श्रुतेः आपः अग्नेः ॥११॥

२२८। पृथिवी ॥
पृथिवी अद्भ्यः। अद्भ्यः पृथिवी इति श्रुतेः ॥१२॥

२२९। अधिकाररूपशब्दान्तरेभ्यः ॥
ता अन्नमसृजन्त इत्यन्नशब्देन पृथिव्येवाभिधीयते, महाभूतसृष्ट्यधिकारात् । यत्कृष्णं तदन्नस्य इति पृथिवीरूपविधानात्, अद्भ्यः पृथिवी इति पृथिवीशब्दाभिधानच्च ॥१३॥

राद्धान्तमाह ।
२३०। तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ तत्तेज ऐक्षत, ता आप ऐक्षन्त इति
तदभिध्यानरूपात्, तदैक्षत बहु स्याम् इत्येतत्सरूपात् परमात्मकारणत्वलिङ्गात् स एव परमात्मा
तेजः प्रभृतिशरीरकस्तत्तच्छब्दैस्साक्षात्कारणत्वेनाभिधीयते ॥१४॥

२३१। विपर्ययेण तु क्रमोऽत उपपद्यते च ॥
पारम्पर्यक्रमात् विपर्ययेण एतस्माज्जायते प्राणः, खं वायुर्ज्योतिरापः इत्यादिवाक्यात् यस्साक्षाद्ब्रह्मणस्सृष्टेरुपक्रमः, सोऽपि अतः - तेजःप्रभृतिशरीरकब्रह्मण एव सृष्टेः उपपद्यते ॥१५॥

२३२। अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥
भूतप्राणयोरन्तराले इन्द्रियग्राममनसी क्रमेण उत्पद्येते इत्येतत्परमिदं वाक्यम्, खं वायुर्ज्योतिराप इत्यादि श्रुतिप्रत्यभिज्ञानरूपाल्लिङ्गात्, अत इदमपि पारम्पर्यक्रमपरमिति चेन्न, एतस्माज्जायते इत्यस्य प्राणादिपृथिव्यन्तेषु सर्वेषु प्रत्येकमन्वयाविशेषात् । अतस्तेजःप्रभृतीनामपि साक्षात्परमात्मैव कारणम् ॥१६॥

तत्तेज ऐक्षत इति तेजः प्रभृतिशब्दाः लोके तत्तद्वस्तुवाचिनः ब्रह्मणि भाक्ता इत्यत्राह -
२३३। चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोऽभाक्तस्तद्भावभावित्वात् ॥
चराचरवस्तुसंबन्धितत्तद्वाचकशब्दः ब्रह्मणि अभाक्तः - मुख्य एव, अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति तु सर्वस्य वस्तुनो नामरूपभाक्त्वस्य आत्मतया ब्रह्मानुप्रवेशभावभावित्वात् । लौकिकास्त्वेवमजानन्तो वाच्यैकदेशे प्रयुञ्जते ॥१७॥
इति तेजोऽधिकरणम् ॥२॥