२१७। न वियदश्रुतेः - वियन्नोत्पद्यते, अश्रुतेः, श्रुतिः - श्रवणम्। निरवयवस्य, आत्मन
इवोत्पत्तिश्रवणासंभवात्॥१॥

२१८। अस्ति तु - श्रवणं संभवत्येव, आकाशस्संभूतः इत्येव हि श्रुतिः अतीन्द्रियार्थविषया
वियदुत्पत्तिं प्रतिपादयति। आत्मनोऽपि न जायते इति प्रतिषेधादनुत्पत्तिः॥२॥

२१९। गौण्यसंभवाच्छब्दाच्च - तत्तेजोऽसृजत इति तेजः प्राथम्यवचनात् आकाशस्संभूतः
इति श्रुतिर्गौणी वायुश्चान्तरिक्षं चैतदमृतम् इति शब्दाच्च॥३॥

२२०। स्याच्चैकस्य ब्रह्मशब्दवत् - एकस्य संभूतशब्दस्याकाशे गौणत्वमन्यत्र मुख्यत्वम्
अनुषङ्गे संभवत्येव, श्रवणावृत्तिवत्, यथैकस्य ब्रह्मशब्दस्य तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते
इति प्रकृतौ गौणत्वम्, तपसा चीयते ब्रह्म इति मुख्यत्वमावृत्तौ॥४॥
परिहरति -

२२१। प्रतिज्ञाहानिरव्यतिरेकात् - येनाश्रुतं श्रुतम् इत्यादिना एक विज्ञानेन सर्वविज्ञानप्रतिज्ञाया
अहानिः वियदादेर्ब्रह्मकार्यत्वेन तदव्यतिरेकादेव॥५।॥

२२२।- शब्देभ्यः - आकाशस्संभूतः इत्यादिशब्देभ्यः अवगतां वियदुत्पत्तिं तत्तेजोऽसृजत
इत्यत्राकाशशब्दावचनावगतं तेजः प्राथम्यं न निवारयितुं क्षमम्॥६॥

२२३। यावद्विकारं तु विभागो लोकवत् - ऐतदात्म्यमिदं सर्वम् इत्यादिना आकाशादेरपि
विकारत्वावगमात्, तेजः प्रभृतिविभागवचनं सर्वस्य प्रदर्शनार्थमिति निश्चीयते। यथा च लोके दशेमे
देवदत्तपुत्रा इत्युक्त्वा तेषु केषाञ्चिदुत्पत्तिवचनम्॥७॥

२२४। एतेन मातरिश्वा व्याख्यातः - तेजोऽतः इत्यादि वक्तुं वायोः पृथगुपादानम्॥८॥

२२५। असंभवस्तु सतोऽनुपपत्तेः - असंभवस्तु परस्य ब्रह्मण एव। इतरस्य
सदेवेत्यवधारणाद्यनुपपत्तेरुत्पत्तिरेव॥९॥ इति वियदधिकरणम् ॥ १ ॥ इति वियदधिकरणम् ॥ १ ॥
आकाशादिव्यवहितकार्याणामपि साक्षाद्ब्रह्मण उत्पत्तिं वक्तुं पूर्वपक्षमाह -