18 उत्पत्त्यसंभवाधिकरणम्

२१३। उत्पत्त्यसंभवात् - साङ्ख्यादिवत्पञ्चरात्रमपि जीवोत्पत्त्यभिधानात्, श्रुतिविरुद्धत्वेन
तदसंभवादप्रमाणम्॥३९॥

२१४। न च कर्तुः करणम् - कर्तुः - जीवात्, करणं - मनश्च, श्रुतावुत्पद्यते इति
नोच्यते, एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च इत्यादि श्रुतेः॥४०॥

२१५। विज्ञानादिभावे वा तदप्रतिषेधः - वासुदेवात्सङ्कर्षणो नाम जीवः इत्यादौ
सङ्कर्षणादीनां विज्ञानादिरूपवासुदेवत्वे सति तदभिधायिनः प्रामाण्यानिषेधः। परब्रह्मवासुदेवस्य श्रुतावपि
अजायमानो बहुधा विजायते इति चावतारश्श्रूयते जीवादिशब्दाः तत्तच्छरीरकसङ्कर्षणादीनां
वाचकाः॥४१॥

२१६। विप्रतिषेधाच्च - तस्मिन्नपि तन्त्रे व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च।
स ह्यनादिरनन्तश्च परमार्थेन निश्चितः॥ इति जीवोत्पत्तिप्रतिषेधाच्चाविरोधश्श्रुतः॥४२॥ इति
उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे
द्वितीयाध्याये द्वितीयः पादः ।
अथ द्वितीयाध्यायस्य तृतीयः पादः