२०९। पत्युरसामञ्जस्यात् - नेति वर्तते। पशुपतेर्मतमनादरणीयं वेदविरुद्ध-
निमित्तोपादानभेदतद्विरुद्धाचारपरत्वेन असामञ्जस्यात्॥३५॥
२१०। अधिष्ठानानुपपत्तेश्च - अनुमेयेश्वराभ्युपगमेन हि केवलाधिष्ठातृत्वमुच्यते, तथा सति
अशरीरस्य प्रधानाधिष्ठानानुपपत्तेः, सशरीरत्वे तु शरीरोत्पत्त्यनिरूपणात्, सावयवस्य तस्य नित्यत्वे
महीमहीधरादीनामपि नित्यत्वाविरोधाच्च॥३६॥
२११। करणवच्चेन्न भोगादिभ्यः - करणकळेबराद्यधिष्ठानवदशरीरस्यैवाधिष्ठानमिति चेन्न।
पुण्यपापनिमित्तत्वात्तस्य तत्फलभोगादिप्रसक्तेः॥३७॥
२१२। अन्तवत्त्वमसर्वज्ञता वा - तथा सति क्षेत्रज्ञवत् अन्तवत्त्वमसर्वज्ञता च॥३८॥ इति
पशुपत्त्यधिकरणम् ॥ ७ ॥