२०१। नाभाव उपलब्धेः - ज्ञानव्यतिरिक्तार्थाभाववादश्च न संभवति, घटमहं जानामीति
कर्तृज्ञानकर्मतयाऽर्थस्योपलब्धेः न तदभावश्शक्यते वक्तुम्। पुरुषस्यार्थविशेषव्यवहारानुगुण्यापादकत्वमेव
ज्ञानस्याकारः॥२७॥
२०२।वैधर्म्याच्च न स्वप्नादिवत् - क(का)रण दोषबाधकप्रत्ययराहित्यरूपवैषम्याच्च न
स्वप्नादिवज्जागरितज्ञानस्य मिथ्यात्वम्॥२८॥
२०३। न भावोऽनुपलब्धेः - अर्थशून्यस्य ज्ञानस्य सद्भावो न संभवति, अनुपलब्धेः।
स्वप्नज्ञानस्याप्यर्थवत्तोपपादयिष्यते॥२९॥ इति उपलब्ध्यधिकरणम् ॥ ४ ॥