विकारास्पदत्वेनापुरुषार्थाश्रयत्वेन च जगतो ब्रह्मविलक्षणत्वात् तत्कार्यत्वं न संभवति । विलक्षणत्वं (विलक्षणत्वं च M1,M3) शब्दाच्चावगम्यते,“विज्ञानं चाविज्ञानं च " इत्यादेः ।।
“तं पृथिव्यब्रवीत्” “आपो वा अकामयन्त " इत्यादिज्ञानकार्यव्यपदेशस्तदभिमानिदेवताविषय इति,“हन्ताहमिमास्तिस्रो देवताः” इति देवताशब्देन विशेषितत्वात् “अग्निर्वाग्भूत्वा मुखं प्राविशत् " इत्यादिना तत्तदचिद्वस्त्वभिमानित्वेन देवतानुगतेश्चावगम्यते।।
विलक्षणयोरपु कार्यकारणभावः संभवति,माक्षिकादिभ्यःक्रिम्याद्युत्पत्तिदर्शनात्।।
एवं तर्हि कारणे कार्यमसदिति चेन्न, सालक्षण्यनियमपिरतिषेधमात्रत्वात्।पूर्वोक्तं कार्यकारणयोर्वस्त्वैक्यं न त्यक्तम्।।
जगतो ब्रह्मकारणत्वेन (ब्रह्मणा कारणेन M.3) वस्त्वैक्येन तस्मिन्नपीत्यादौ जगत इव ब्रह्मणोऽपि विकारित्वाद्यनिष्ट- प्रङ्गात् वेदान्तवाक्यं सर्वमसमञ्जसं स्यात् ।।
नैतत्; “यस्यात्मा शरीरम्” “यस्याव्यक्तं शरीरम्” इत्यादिश्रुतिसिद्धचिदचिद्वस्तु- शरीरकस्य ब्रह्मणः कार्यकारणभावेनावस्थाने गुणदोषव्यवस्थितौ दृष्टान्तसद्भावात् । यथा जीवस्य सशरीरस्य मनुष्यायात्मनो बालत्वयुवत्वस्थविरत्वादिभावेऽपि बालत्वादयः शरीरे तिष्ठन्ति, ज्ञानसुखादयश्चात्मन्येव, तद्वदत्रापि शरीरभूतचिदचिद्वस्तुगतान्यज्ञानविकारादीनि (दोषाः added A1,M2,Pr.) आत्मभूते तु ब्रह्मणि निरवद्यत्वादिविकारित्वसर्व5सर्वज्ञत्वसत्यसंकल्पत्वादयः (गुणाः added A1,M2.)।।
प्रधानकारणवादे दोषाच्चायमेव ग्राह्यः। प्रधानकारणवादे निर्विकारपुरुषसंनिधानात् प्रकृतिप्रवृत्तावितरेतरधर्माध्यासादयो दुरुपपादाः।अन्यत्रान्यधर्मानुसंधानरूपोऽध्यासोनिर्विकारपुरुषस्य न संभवति।अचेतनायाःप्रकृतेरनुसंधानरूपोऽध्यासःसुतरां न संभवति ।।
प्रधानकारणवादस्य कुतर्कमूलत्वेन(मूलत्वात् M3.) तस्याप्रतिष्ठितत्वादपि त्याज्यं प्रधानम् ।।