01 स्मृत्यधिकरणम्

उपबृंहणापेक्षे वेदान्तार्थनिर्णये (निश्चये A1,M2.) सति, कपिलस्मृत्युपबृंहणेन वेदान्तार्थः प्रधानकारणवाद इत्यनभ्युपगमे कपिलस्मृतेरुपबृंहणानन्वयेनानवकाशप्रसक्तिरिति चेत्; न, अन्यासां (वेदाविरोधिनीनां A1) वेदान्ताविरोधिनीनां बह्वीनां मन्वादिस्मृतीनामनवकाशप्रसक्तेः । वेदस्योपबृंहणापेक्षत्वेऽप्यनन्यपराविरुद्धानेकस्मृतिषु सतीषु, विरुद्धाया (विरुद्धार्थायाः A1) वेदोदितार्थ विशदीकरत्वाभावेन (विशदीकरणत्वाभावेन M1,2.) तस्या उपबृंहणत्वमन्याय्यमित्यर्थः ॥

योगीन्द्रकपिलस्य तथानुपलब्धेः कथं स्मृत्यन्तरं न्याय्यमिति चेत्, तत्राह -
वेदार्थसाक्षात्कारचतुरमन्वादियोगीन्द्राणां कपिलदृष्टार्थानुपलब्धेः कपिलोपलब्धिर्भ्रम (भ्रान्तिमूलैव A1) एव ॥