जगदुपादानकारणमपि (आपे omitted M1.) परं ब्रह्म,न निमित्तमात्रम् ; “स्व ब्धोऽस्युततमादेशामप्राक्ष्यो येनाश्रुतं श्रुतं भवति “इति येनादेष्ट्रा निमित्तभूतेन विज्ञातेन चेतनाचेतनात्मकं कृत्स्नं जगद्विज्ञातं भतीत्यादेष्टृविज्ञानेनसर्वविज्ञानप्रतिज्ञातदुपपादनरूपमृत्कार्यदृष्टान्तानुपरोधात् । आदिश्यतेऽनेनेत्यादेशः । (इत्यादेश A1,M1) आदेशशब्देनादेष्टाभिधीयते । आदेशः प्रशासनम् ;“एतस्य वा अक्षरस्य वा अक्षरस्य प्रशासने गार्गि " इतयादिश्रुतेः।।
“तदैक्षत बहुस्यां प्रजायेय " इति निमित्भूतस्येक्षितुर्विचित्रचिदचिद्रूपजगदाकारेणात्मनो बहुभवनसंकल्पोपदेशाच्चोपादानमपीतिविज्ञायते।।
“ब्रह्म वनं ब्रह्म स वृक्ष आसीत् " “ब्रह्माध्यतिष्टद्भुवनानिधारयन् " इतयुपादानं च ब्रह्मैवेति (स्व ometted M.2 )स्वशब्देनोभयाम्नानाच्च ।।
“सोऽकामयत” इति निमित्तभूतस्य(निमित्तस्य A1)स्वस्यैव जगदाकारेण कृतेः “तदात्मानं स्वयमकुरुत” इत्युपदिश्यमानायाः परमपुरुषो जगन्निमित्तमुपादानं चेति विज्ञायते ।।
परस्य ब्रह्मणो निरवद्यत्वसत्यसंकल्पत्वादेस्तद्विपरीतानन्तापुरुषार्थाश्रयजगदाकारेणात्मकृतेश्चाविरोधः कथमित्याशङ्क्याह - अत्रोपदिश्यमानात् परिणामात् तदविरोध एव । अविभक्तनामरूपातिसूक्ष्मचिदचिद्ववस्तुशरीरकः कारणावस्थः परपुरुषः स्वयमेव “सोऽकामयतबहुस्यां प्रजायेय " इति विभक्तनामरूपचिदचिद्वस्तुशरीरकोभवेयमिति संकल्प्य. “इदं सर्वमसृजत। यदिदं किंच " इति स्वशरकीरभतमतिसूक्ष्मं चिदचिद्वस्तु स्वस्माद्विभज्य, “तत् सृष्ट्वा । तदेव ानुप्राविशत् " इति स्वस्माद्विभक्ते चिदचिद्व स्तुनिस्वयमेवात्मतयानुप्रविश्य,(अनु omitted M 2) “सच्चत्यच्चाभवत् । निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् " इति हि स्वस्य बहुभवनरुपपरिणाम उपदिश्यते । अतो न कश्चिद्विरोधः । अविभागावस्धायामपि जीवस्तत्कर्म च सूक्ष्मरूपेण तिष्टतीति वक्ष्यति - “न कर्माविभागादिति चेन्न, अनादित्वादुपपद्यते चाप्युपलभ्यते च “इति ।।
“यद्भूतयोनिम् “इत्यादिषु योनिश्च गीयते । अतश्चोपादानमपि ।।