33 वाक्यान्वयाधिकरणम्

“न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय " इतयारभ्य, “आत्मा वा अरे द्रष्टव्यः” इतयादिनोपदिष्टः परमात्मा; “अमृतत्वस्य तु नाशास्ति वित्तेन” इत्यारभ्य, “आत्मनि खल्वरे दृष्टे श्रुते मते व िज्ञात इदं सर्वं विदितम् " इत्यादेः “येनेदं सर्वं विजानाति " इत्यन्तस्य कृत्स्नस्य वाक्यसमय परमात्मन्येवान्वयात् ।।

अस्मिन्प्रकरणे प्रकरणान्तरे च जीववाचिशब्देन परमातमनोऽभिधाने तत्सामानाधिकरण्ये च कारणं च कारणं मतान्तरेणाह -
“आत्मनि खल्वरे खल्वरे दृष्टे” इत्यादिना परमातमज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये जीवस्य त्कार्यतया तस्मादनतिरिक्तत्वं ज्ञापयितुं जीवब्देन परमात्माभिधानमित्याश्मरथ्यः।।

उत्क्रमिष्यतो मुक्तस्य परमात्मस्वरुपभावादात्मशब्देन परमात्माभिधानमित्यौडुलोमिः।।

“य आत्मनि तिष्ठन्नात्मनोऽन्तरः” इत्यादिना जीवात्मनि परमात्मन आत्मतयावस्थितेरिति काशकृत्स्न आचार्यौ मन्यते । इदमेव मतं सूत्रकारः स्वीकृतवानिति मतद्वयमुपन्यस्य तद्विरोध्येतदभिनादन्यस्यानभिधानाच्च निश्चीयते ।।