“ब्रह्म ते ब्रुवाणि” इत्युपक्रम्य “यो वै बालक, एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वैदितव्य ः” इत्यत्र कर्मशब्दस्यैतच्छब्दसामानाधिकरणयेम क्रियत इति व्युत्पत्या जगद्वाचित्वात् परमेव ब्रह्म वेदितव्यतयोपदिष्टम् ।।
“अतैरात्मभिर्भुङ्क्ते” “अथास्मिन् प्राण एवैकधा भवति " इति च (जीवादि M.2,3) जीवमुख्यप्राणलिङ्गाच्च पर इति चेत्, एतत् प्रतर्दनविद्यायामेव परिहृतम्। पूरिवापरपर्यालोचनया ब्रह्मपरत्वे ब्रपरत्वे निश्चिते,तदनुगुणतया नेयमन्यल्लिङ्गमिति।।
“तौ ह सुप्तं पुरुषमाजग्मतुः इत्यादिना देहातिरिक्तजीवसद्भावप्रतिपादनं,(प्रतिबोधनं A.1,M.2)“तदतिरिक्तपरमात्मसद्भावज्ञापनार्थमिति “कैष एतद्बालाके पुरुषोऽशयिष्ट” इति प्रश्नात् , “अथास्मिन् प्राण एवैकधा भवति " इति"सता सोम्ये तदा संपन्नो भवति " इति वाक्यसमानार्थकात् प्रतिवचनाच्चावगम्यते । एके वाजसनेयिनोऽपि, (प्रश्न Omitted M1,2) एतत्प्रश्नप्रिवचनसमानार्थं (सरूपं A1,M3).वाक्यं स्पष्टमधीयते च -“कैष तदा " इत्यादि “य एपोऽन्तर्हृदय आकाशस्तस्मिच्छेते” इत्यन्तम् ।।