31 कारणत्वाधिकरणम्

आकाशादिषु कार्यवर्गेषु कारणत्वेन सर्वत्र वेदान्तवाक्येषु (कारणवाक्येषु M.3.) “असद्वा इदमग्र आसीत्” “तद्धेदं तर्ह्यव्याकृतमासीत् " इतयादिष्वनिर्ज्ञातविशेषेषु “आत्मा वा इदमेक एवाग्र आसीत् । स ईक्षत लोकान्नु सृजै " इति विशेषवाचिवाक्यनिर्दिष्टस्यैवोक्तेर्न तान्त्रिकाव्याकृतादिकारणवादप्रङ्गः।।

“सोष़कामयत बहुस्यां प्रजायेय " इति पूर्वनिर्दिष्टस्यैव सर्वज्ञस्य “असद्वा इदमग्र आसीत् " इति निरिदिष्टस्यैव “स एष इह प्रविष्ट आ नखाग्रेभ्यः " “पशायत्यचक्षुः” इत्यत्र समाकरर्षादेव एवाव्याकृतशब्दनिर्दिष्ट(एवाव्याकृत इति A 1,M1.Kaus.Grantha edition followed.)इति निश्चीयते। असदव्याकृतशब्दौ तदानीं नामरूपविभागाभावादुपपद्येते।।