30 संख्योपसंग्रहाधिकरणम्

“यस्मिन् पञ्चजनाः” इत्यत्र पञ्चविंशतिसंख्योपसंग्रहादपि न तान्त्रिकाण्यतानि, यस्मिन्निति यच्छब्दनिर्दिष्टब्रह्माधारतया तेभ्य ः पृथग्भावात्। एतेषां तत्वातिरेकाच्च । यच्छब्दनिर्दिष्टमाकाशश्चेति द्वयमतिरिक्तम्। संख्योपसंग्रहादपीत्यपिशब्दान्नात्र पञ्चविंशतिसंख्यासंग्रहः। “दिक्संख्ये संज्ञायाम् " इति संज्ञाविषयोऽयं पञ्चजना इति। पञ्चजवना नाम केचित्। ते पञ्चेति पञ्च पञ्चजना इत्युच्यते ;सप्त सप्तर्पय इतिवत् ।।

पञ्चजनसंज्ञिताः प्राणादयः पञ्चेन्द्रियाणीति “प्राणस्य प्राणमुत चक्षुषश्चक्षु ः “इत्यादिवाक्यशेषादवगम्यते ।
चक्षुःशोत्रसाहचर्यात्प्राणान्नशब्दावपि स्पर्शनादीन्द्रियविषयौ ।।

एकेषां शाखिनां काण्वानाम्, “अन्नस्यान्नम् " इत्यसति, “तं देवाज्योतिषां ज्योतिः " इत्युक्रमगतेन ज्योतिःशब्देन पञ्च पञ्चजना इन्द्रियणीति ज्ञायन्ते। ज्योतिषां ज्योतिः प्रकाशकानां प्रकाशकं ब्रह्मेत्युक्तवा,अनन्तरं “पञ्च पञ्चजना ः “(इत्युक्तेते A.1,M.1.)इत्युक्तेस्ते प्रकाशकानि पञ्चेन्द्रियाणीति गम्यते ।।