“अजामेकां लोहितशुक्लकृष्णां बह्वीःप्रजाःसृजमानाम् " इत्यत्र न तन्त्रसिद्धा प्रकृतिः कारणत्वेनोक्ता । जन्माभावयोगमात्रेण न तस्या एव प्रतीतिः “अर्वाग्बिलश्चमसः” इतिवत् प्रकरणे विशेषकाभावात्। यथा “इृदं तच्छिरः” इिति हि चमसो विशेष्यते। यौगिकशब्दाद्विशेष प्रतीतिर्हि विशेषकापेक्षा।।
ज्योदिर्ब्रह्म। ज्योदिरूप्रक्रमा(ज्योदिरुप्रक्रमा omitted A1,M1.)ब्रह्मकारषिकोयमजा। तधाहि ब्रह्मकारणिकाया एव प्रतिपादकमेत्सरुपं मन्त्रं च तैत्तिरीया अधीयते। “अणोरणीयान्महतो महीयान् " इत्यारभ्य “अतः समुद्रा गिरयश्य " इत्यादिना सर्वस्य ब्रह्मण उत्पत्या तदातमकत्वप्रतिपादनसमयो “अजामेकाम् " इति पठन्ति। अतस्तत्प्रत्यभिज्ञानादियं ब्रह्मकारणिकेति निश्चीयते।।
कल्पना सृष्टिः। यथा “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् " इति । “अस्मान्मायी सृजते विश्वमेत्त् " इत्यादिना सृष्ट्युपदेशादजात्वब्रह्म कार्यत्वयोरविरोधः। अविरोधश्च प्रल यकाले नामरूपे विहायाचिद्वम्त्वपि सूक्ष्मरूपेण ब्रह्मशरीरतया तिष्टतीत्यजीत्वम्। सृष्टिकाले नामरूपे भजमाना प्रकृतिर्ब्रह्मकारणिका। यथा आदित्यस्य सृष्टकाले वस्वादिभोग्यरसाधारतया मधुत्वं च । तस्यैव प्रलयकाले मध्वादिव्यपदेशानर्हशानर्हसूक्ष्मरूपेणावस्थानमकार्यत्वं च मधुविद्यायां प्रतीयते “असौ वा आदित्यो देवमधु " “नैवोदेता नास्तमेता, एकल एव मध्ये स्थाता " इति । तद्वत्।।