एकेषां कठानां शाखायामानुमानिकं प्रधानमपि जगत्कारणत्वेन “महतः परमव्यक्तम्” इत्यवच्यत इति चेत्,न; पूर्वत्र “आत्मानं रथिनं विध्दि"इत्यादिषूपासनोपायोषु वशीकार्यत्वाय रथिरथादिरूपक विन्यस्तेषु शरीरारूपकविन्यस्तस्यात्राव्यक्तशब्देन गृहीतेः। “इन्द्रियेभ्यः पराह्यर्थाः” इत्यादिना हि वशीकार्यत्वे परा उच्यन्ते। तथाचोत्तरत्र श्रुतिरेव दर्शयति-“यच्छेद्वाङ्मनसी प्राज्ञः” इत्यादिना ।।
सूक्ष्ममव्यक्तमेव शरीरावस्थं कार्यार्हमित्यव्क्तशब्देन शरीरमेव गृह्यते।। यदि रूपकविन्यस्तानामेव ग्रहणं,किमर्थम् “अव्यक्तात्पुरुषःपरः” इति?
अतः आूह- पुरुषाधीनत्वादात्मशरीरीदिकमर्थवदुपासननिर्वृतये भवति। पुरुषो ह्यन्तर्यामी सर्वमात्मादिकं प्रेरयन्नपासनोपायत्वेन वशीकार्यकाष्टा प्राप्यश्चेति “सा काष्टा सा परा गतिः” इत्युच्यते ।।
अत्राव्यक्तस्य ज्ञेयत्वावचनाच्च न कापिलमव्यक्तम्।।
“अशब्दमस्पर्शम्” इत्यारभ्य “निचाय्य तम् (तम् omittedM2.)“इति वदतीति चेत् ; न ; “तद्विष्णोः परं पदम्” “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते " इत्यादिना प्रकृतः प्राज्ञो हि “निचाय्यतम्” इति ज्ञेय उच्यते।।
उपास्योपासनोपासकानां त्रयाणामेवास्मिन् प्रकरणे ज्ञेयत्वेनोपन्यासः प्रश्नश्च ; न प्रधानादेः। “अध्यात्मयोगाधिगमेन देवं मत्वा” इत्यादिरूपन्यासः। “येयं प्रेते विचि कित्सा मनुष्ये अस्तीत्येके” इत्यादिकश्च प्रश्नः।।
“बुद्धेरात्मा महान् परः” इत्यात्मशब्दद्यथा न तात्न्रिको महान्, तथाव्यक्तमपीति।।