27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

“आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म “इत्यादिना निर्दिष्ट आकाशः “धूत्वा शरीरम् (शरीरमकृतं कृतात्मा A.1.)” इति प्रकृतात्प्रत्यगात्मनः परिशुध्दादर्थान्तरभूतःपरपुरुषः, नामरूपयोनिर्वोडृत्वतदस्पर्शरूपार्थान्तरत्वामृतत्वादिव्यपदेशात् ।।

तत्वमस्यादिनैक्योपदेशात् प्रत्यगात्मनो नार्थान्तरभूतः परमपुरुष इत्याशङ्क्याह–
“प्रज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्” “प्राज्ञेनात्मनान्वारूढः” इति सुषुप्त्युक्रात्न्योर्बाह्यान्तरविषयानभिज्ञात्प्रत्यगात्मनः तदानीमेव प्राज्ञतया भेदेन व्यपदेशादर्थान्तरभूत एव परः(परःOmitted A1,2.)।।

परिष्वञ्जके प्राज्ञे श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्चायमर्थान्तरभूतः। “सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः” इचि ह्युत्तरत्र श्रूयतेः। ऐक्योपदेशोऽपि “अवस्थितेरिति काशकृत्स्नः"इत्यनेन जीवस्य शरीरभूतस्यात्मतयावस्थितेरिति स्वयमेव परिहरिष्यति।।