“आजहारेमाः शूद्र” इत्यादौ ब्रह्मविद्योपदेशे शिष्यं प्रदि शूद्रेत्यामन्त्रणेन शिष्यस्य ब्रह्मज्ञानाप्रास्या शुक् संजातेति सूच्यते । शोचनात् शूद्रः, न जादियोगेन । कुतः? तदनादरश्रवणात् । ब्रह्मविद्यावैकल्पेन स्वात्मानं प्रति हंसोक्ता नादरवाक्य -श्रवणात् ।ब्रह्मविद्यावैकल्पेन स्वात्मानं प्रति हंसोक्तानादर वाक्यश्रवणात् । तदैवाचार्ये प्रत्याद्रवणात् । हिशब्दो हेतौ । यतः शूद्रेत्यामन्त्रणं न जातियोगेन, अतः शूद्रस्य ब्रह्मोपासनाधिकारो न सूच्यते ।।
शुश्रूषोः क्षत्रियत्वावगतेश्च न जातियोगेन शूद्रोत्यामन्त्रणम्।उपक्रमे “बहुदायी"इत्यादिना दानपतित्वबहुपकान्न दायित्व बहुग्रामप्रदानैरस्यहि(हि omitted A.1,M3,) क्षत्रियत्वं गम्यते ।।
उपरिष्टायां (संवर्गomitted M.3.) संवर्गविद्यायां ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते-“अथ ह शौनकं च कापेयमभि प्रतारिणं च” इत्यादौ। अभिप्रतारी हि चैत्ररथः क्षत्रियः। अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते। प्रकरणान्तरे हि कापेयमबचारिणश्चैत्ररथत्वं क्षत्रियत्वंचावगतम्-“एतेन चैत्ररथं कापेया अयाजयन्” इति; “तस्माच्चैत्ररथोनामै-
मैकः क्षत्रपतिरजायत” इति च। अतश्चायं शिष्यो न चतुर्थः।।
विद्योपक्रमे “उप त्वा नेष्ये” इत्युपनयनपरामर्शात् , शूद्रस्यतदभानाभिलापाच्च न शूद्रस्य ब्रह्मविद्याधिकारः। “न शूद्रे पातकं किंचिन्न च संस्कारमर्हति” इति संस्कारो हि निषिद्धः।।
“नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर” इति शूद्रत्वाभावनिश्चयएवोपदेशप्रवृत्तेश्च नीधिकारः(अनधिकारः M.3.)।।
शूद्रस्य हि श्रवणाध्ययनादीनि निषिध्यन्ते- “तस्माच्छुद्रसमीपेनाध्येतव्यम्” इति। अनुपश्रृण्वतोऽध्ययनादि च(च omittedM1.) न स्भवति।।
स्मर्यते हि शूद्रस्य वेदश्रवणादौ दण्डः। “अथ हास्य वेदमुपसृण्वतस्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः” इति।।