मधुविद्यादिषु वस्वादिदेवानामेवोपास्यत्वात् प्राप्यत्वाच्च तत्र वस्वादीनां कर्मकर्तृभावविरोपास्यत्वासंभवात्, वसूनां सतां (सदा,M.1,2) वसुत्वं प्राप्प्तमिति प्राप्यत्वासंभावाच्च तत्र वस्वादीनामनधिकारं जैमिनिर्मेने ।।
“तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इति ज्योतिषि परस्मिन् ब्रह्मणि देवानां साधारण्येन प्राप्तत्वेऽप्यधिकारभावा वचनादन्यत्र वस्वाद्युपासनेऽनधिकारो न्यायसिध्दोऽवगम्यते।।
मधुविद्यादिष्वपि वस्वादीनामघिकारभावं भगवान् बादरायणोमन्यते। अस्ति हि वस्वादीनां सतां स्वावस्थब्रह्मण उपास्यत्वसंभवः, कल्पान्तरे वसुत्वादेः प्राप्यत्वसंभवश्च । “एकल एव मध्ये स्थाता” इत्यादिनादित्यस्य कारणावस्यां प्रदिपाद्य “य एदामेवं ब्रह्मोपनिषदं वेद” इति मधुविद्याया ब्रह्मविद्यात्वमाह । अतः कार्यकारणोभयावस्यं ब्रह्म तत्रोपास्यम्। कल्पान्तरे वस्वादित्वमनुभूयाधिकारावसाने ब्रह्मप्राप्तिर्नविरुध्दा ।।