24 देवताधिकरणम्

तद्ब्रह्मोपासनमुपरि देवादिष्वप्यस्ति, अर्थित्वसामर्थ्यसंभवादिति भगवान् बादरायणो मेने। संभवश्च पूर्वोपार्जितज्ञानाविस्मरणात्।मन्त्रार्थवादेषु विग्रहादिमत्तया स्तुतिधर्दशनात् , तदुपपत्तये (तत्संभवे,A.1, तत्सत्वात् M.1.) तत्सद्भावात्तेषामेव प्रामाण्येन विग्रहादिमत्वाच्च।।

विग्रहादिमत्व एकस्यानेकत्र युगपत्सांनिध्यायोगात् कर्मणि विरोध इति चेत् ; न ,(शक्तिमत्सौभरि,M.1) शक्तिमत्सु सौभरिप्रभृतिषु युगपदनेकदेह प्रतिपत्तिदर्शनात्।।

वैदिके तु शब्दे विरोधप्रसक्तिः। देहस्य सावयवत्वेनोपत्तिमत्वादिन्द्रादिदेवोत्पत्तेः प्राग्विनाशादूर्ध्वं च (वैदिक ommitted A1.) वैदिकेन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादिति चेत्; न. अतः प्रभवात् ; वैदिकेवेन्द्रादिशब्दादिशब्दादिन्द्राद्यर्थसृष्टेः। न हीन्द्रादिशब्दा व्यक्तिवाचकाः अपितु गवादिशब्दवदाकृतिवाचिनः । पूर्वस्मिन्निन्द्रादौ विनष्टे वैदिकेन्द्रादिशब्दादेव ब्रह्मा पूर्वेन्द्राद्याकृतिविशेषं स्मृत्वा, तदाकारमपरमिन्द्रादिकं कुलालादिरिव घटादिकं सृजतीति न कश्चिद्विरोधः। कुत इदमवगम्यते श्रुतिस्मृतिभ्याम्। श्रुतिस्तावत्–“वेदेन रूपे व व्यकरोत् । सता सती प्रजापतिः"“स भूरिति व्याहरत्। सत भूमिमसृजत"इत्यादिः। स्मृतिरपि–“सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे”।। इत्यादिः।।

यतोब्रह्मा वैदिकाच्छब्दादर्थान् स्मृत्वा सृजत्,अत एव “मनत्रकृतो वृणीते” “विश्वामित्रस्य सुक्तं भवति"इति विश्वामित्रादीनां मन्त्रादि कृत्तवेऽपि मन्त्रादिमयवेदस्य नित्यत्वं तिष्टति।अनधीतमन्त्रादिदर्शनशक्तान् पुर्वविश्वामित्रादींस्तत्तद्वैकशब्दैः स्मृत्वा तत्तदाकारानपरांस्तत्तच्छक्ति- युक्तान् सृजति हि ब्रह्मा नैमित्तिकप्रलयानन्तरम्।ते चानधीत्यैवमन्त्रादीनस्खलितान् पठन्ति। अतस्तेषां मन्त्रादिकृत्वं वेदनित्यत्वं च स्थितम्।।

प्राकृतप्रलये चतुर्मुखे वेदाख्यशब्दराशौ च विनष्टे कथं वेदस्य नित्यत्वमित्यत आह–
अत एव सृज्यानां समाननामरुपत्वात् प्राकृतप्रलयावृत्तावपि न विरोधः। आदिकर्ता परमपुरुषो हि पूर्वसंस्थानं जगत् स्मृत्वा तदाकारमेव जगत् सृजति। वेदांश्च पूर्वपूर्वाविशिष्टानाविष्कृत्य चतुर्मुखाय ददातीति श्रुतिस्मृतिभ्यामादिकर्ता पूर्ववत्सृजतीत्यवगम्यते।श्रुतिस्तावत् “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इत्यादिका। “यो ब्रह्माणं विदधाति पूर्वे यो वै वेदांश्च प्रहिणोति तस्मै” इति च। स्मृतिरपि-
“यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु” ।। इति । इति। वेदस्य नित्यत्वं च पूर्वपूर्वोच्चारणक्रमविशिष्टस्यैव सर्वदोच्चार्यमाणत्वम् (उच्चार्यत्वम्,A1,M.2.)