“अङ्गुष्टमात्रः पुरुषो मध्य आत्मनि तिष्टति।ईशानोभूतभव्यस्य” इत्यादावाङगुष्टप्रमितः परमात्मा, “ईशानो भूतभव्यस्य"इति सर्वेश्वरत्वशब्दादेव।।
अनवच्छिन्नस्याप्युपासकहृदि वर्तमानत्वापेक्षमङ्गुष्टप्रमितत्वम्।मनुष्याणामेवोपासंभावनया तद्विषयत्वाच्च शास्रस्यमनुष्यहृदयापेक्षयेदमुक्तम्।स्थितं तावदुत्तरत्र समापयिष्यते।।
प्रासग्ङिकं परिसमाप्य प्रकृतमनुसरति-
अङ्गुष्ठप्रमितप्रकरणमध्ये “यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्” इत्यादिनाभिहिताङ्गुष्टप्रमितप्राणशब्दनिर्दिष्ट जनितभयात् वज्रादिबोद्यतादग्नि- वायुसूर्येन्द्रप्रभृतिकृत्स्न जगत्कम्पनादङ्गुष्टप्रमितः परपुरुष इति निश्चीयते।।
तत्प्रकरणे “न तत्र सूर्यो भाति” इत्यासभ्य “तस्य भासा सर्वमिदं विभाति” इति भाःशब्दाभिहितस्यानवधिकातिशय
ज्योतिषो दर्शनाच्चाङ्गुष्टप्रमितः परमपुरुषः।।