॥ दहराधिकरणम् ॥
सू - दहर उत्तरेभ्यः ॥ (1.3.13)
“अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” इत्यत्र दहराकाशशब्दनिर्दिष्टः परमात्मा, उत्तरेभ्यो वाक्यगतेभ्यस्तदसाधारणधर्मेभ्यः । उत्तरत्र दहराकाशस्य सर्वाधारतयातिमहत्त्वमभिधाय “एतत् सत्यं ब्रह्मपुरम्” इति निर्दिश्य, अस्मिन् ब्रह्माख्यपुरे दहराकाशे कामाः समाहिता इत्युक्ते, कोऽयं दहराकाशः, के च कामा इत्यपेक्षायाम् “एष आत्मापहतपाप्मा” इत्यारभ्य “सत्यकामः सत्यसंकल्पः” इत्यन्तेन दहराकाश आत्मा, कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता गुणा इति हि ज्ञापयति । “दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्” इत्यत्र दहराकाशस्तदन्तर्वर्ति च यत्, तदुभयमन्वेष्टव्यमित्युक्तमिति ज्ञायते । “अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्” इति हि व्यज्यते ॥
“एवमेवेमाः सर्वाःप्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति” इत्यहरहः सर्वासां प्रजानां तमजानतीनां दहराकाशोपरि गतिर्वर्तनं(वर्तमानत्वं,A.2.),दहराकाशसमानाधिकरणो ब्रह्मलोकशब्दश्च दहराकाशः परं ब्रह्मेतिज्ञापयति। तथा ह्यन्यत्र सर्वासांप्रजानां परमात्मोपरि वर्तमानत्वं दृष्टम्-“तस्मिन् लोकाः श्रिताः सर्वे” “तदक्षरे परमे प्रजाः” इत्यादौ। ब्रह्मलोकशब्दश्च “एष ब्रह्मलोकः” इत्यादौ। अन्यत्र दर्शनाभावेऽपीदमेवपर्याप्तमस्य परमात्मत्वे लिङ्गं,यद्दहराकाशोपरि सर्वस्यवर्तमानत्वं ब्रह्मलोकशब्दश्च।।
“अथ य आत्मा स सेतुर्विधृतिः” इति जगध्दृतेःपरमात्मनो (परमात्मनस्य M.3.) महिम्नोऽस्मिन् दहराकाश उपलब्धेश्चायं परः। स
हि परमात्ममहिमा, “एष सेतुर्विधरणः"इत्यादिश्रुतेः।।
आकाशशव्दस्य “यतेष आकाश आनन्दः” इतिपरमात्मन्यपि प्रसिध्देश्चायं परः।(सत्यसंकल्पादि,M.1,)सत्यसंकल्पत्वादिगुण बृन्दोपबृंहिता प्रसिध्दिर्भूताकाशप्रसिध्देर्बलीयसीत्यर्थः।।
“अथ य एष संप्रसादः” इतीतरस्य जीवस्य परामर्शात्प्रकृताकाशः स इति चेत् ; नैतत् ,उक्तगुणानां तत्रासंभवात्।।
उत्तरत्र “य आत्मापहतपाप्मा” इति जीवस्यापहतपाप्मत्वादिश्रवणान्नासंभवः। जागरितस्वप्नसुषुस्याद्यवस्थासु वर्तमानत्वात् स हि
जीव इति चेत् ; नैतत् , आविर्भूतस्वरुपस्तु। कर्मारब्धशरीरसंबन्धित्वेन (संबन्धित्वेनामृततिरोहित,A2,M1.) तिरोहितापहत पाप्मत्वादिकः,पश्चात्परं ज्योदिरुपसंपद्याविर्भूत स्वरुपस्तत्रापहतपाप्मत्वादिगुणको जीवःप्रतिपादितः ।दहराकाशस्त्वतिरोहितकल्याणगुणसागर इति नायं जीवः ।।
“अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपैणाभिनिष्पद्यते” इति जीवात्मनो दहराकाशोपसंपत्त्या स्वरूपाविर्भावापादनरूप माहात्म्यप्रतिपादनार्थोऽत्र जीवपरामर्शः ।।
अल्पस्थानत्वस्वरूपाल्पत्वश्रुतेर्नायं परमात्मेति चेत्, तत्रोत्तरमुक्तम् - “निचाय्यत्वादेवं व्योमवच्च " इति ।।
तस्य दहराकाशस्य परज्योतिषोऽनुकरणश्रवणाच्च (अनुकारश्रवणाच्च ,A.1 )जीवस्य, न जीवो दहराकाशः । “स तत्र पर्येति जक्षत् क्रीडन् रममाणः " इत्यादिस्तदुपसंपत्त्या स्वच्छन्दवूत्तिरूपस्तदनुकारः श्रूयते ।।
“इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च “।।इति ।।