21 ईक्षतिकर्माधिकरणम्

॥ ईक्षतिकर्माधिकरणम् ॥
सू - ईक्षतिकर्म व्यपदेशात् सः ॥ (1.3.12)
“यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत” इत्यारभ्य “स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते” इत्यत्र ध्यायतिपूर्वकेक्षतिकर्म स प्रशासिता परमात्मेत्यर्थः । उत्तरत्र “तमोंकारेणैवायनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं च” इति परमपुरुषासाधारणधर्मव्यपदेशात् । “यत्तत्कवयो वेदयन्ते” इति तदीयस्थानस्य सूरिभिर्दृश्यत्वव्यपदेशाच्च ॥