॥ अक्षराधिकरणम् ॥
सू - अक्षरमन्बरान्तधृतेः ॥ (1.3.9)
“एतद्वै एदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु” इत्यादिनाभिहितमक्षरं परं ब्रह्म, अम्बरान्तधृतेः; (यदूर्ध्वं गार्गि दिव इत्यारभ्य omitted A.1) “यदूर्ध्वं गार्गि दिवः” इत्यारभ्य सर्वविकारधारतया निर्दिष्ट आकाशः कस्मिन्नोतश्च प्रोतश्चेति पृष्टे “एतद्वै तदक्षरम्” इति
निर्दिष्टस्याक्षरस्य वायुमदम्बरान्तधृतेः । सर्वविकाराधारो ह्ययमाकाशो वायुमदम्बरान्तकारणं प्रधानम् । तद्धारकं परं ब्रह्म ॥
सू - सा च प्रशासनात् ॥ (1.3.10)
सा च धृतिः “एतस्य वा अक्षरस्य प्रशासने गार्गि” इत्यादिना प्रकृष्टाज्ञया क्रियमाणा श्रूयते । अत इदमक्षरं प्रत्यगात्मा च न
भवतीत्यर्थः ॥
सू - अन्यभावव्यावृत्तेश्च ॥ (1.3.11)
अन्यभावोऽन्यत्वम् । “अदृष्टं द्रष्टृ” इत्यादिना परमात्मनोऽन्यत्वं ह्यस्याक्षरस्य व्यावर्तयति वाक्यशेषः । अतश्च पर एव ॥