॥ भूमाधिकरणम् ॥
सू - भूमा सम्प्रसादादध्युपदेशात् ॥ (1.3.7)
“सुखं त्वेव विजिज्ञासितव्यम्” “भूमैव सुखम्” इत्युक्त्वा भूम्नः स्वरूपमाह - “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा” इति । यस्मिन् सुखेऽनुभूयमाने तद्व्यतिरिक्तं किमपि सुखत्वेन न पश्यति, न शृणोति, न विजानाति, स भूमेत्युच्यते; “अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्” इति वचनात् ॥
तथाच महाभारते - “दिव्यानि कामचाराणि विमानानि सभास्तथा । आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥ एते वै निरयास्तात स्थानस्य परमात्मनः” ॥ इति । “एष वै निरयास्तात स्थानस्य परमात्मनः” इति प्रस्तुतं चातिवादित्वमेवमेव समञ्जसम् । अतिवादित्वं हि स्वोपास्यपुरुषार्थाधिक्यवादित्वम् । तदल्पमित्यल्पप्रतियोगित्वेन भूमेत्युक्तप्रकारवैपुल्यविशिष्टसुखरूपवाची (स्वरूपवाची M.3) । अयं भूम शब्दव्यपदिष्टः परमात्मा, संप्रसादादध्युपदेशात् । संप्रसादः प्रत्यगात्मा, “अथ य एष संप्रसादः” इत्यादिश्रुतेः । “एष तु वा अतिवदति यः सत्येन” इत्यादिना प्राणशब्दनिर्दिष्टात् प्रत्यगात्मन ऊर्ध्वमर्थान्तरत्वेनास्योपदेशात् ॥
“स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि” इत्यादावुपदिष्टानां स्वमहिमप्रतिष्ठितत्वसर्वकारणत्व सर्वात्मत्वादिधर्माणां परस्मिन्नेवोपपत्तेश्च भूमा परः ॥