“यस्मिन् द्यौः पृथिवी चान्तरिक्षम्” इत्यादौ द्युपृथिव्यादीनामायतनमाधारः परमपुरुषः. “तमेवैकं जानथात्मानम्” इत्यात्मशब्दात् । निरुपाधिकात्मत्वं हि परमपुरुषस्यैव । “अमृतस्यैव सेतुः” इति तदेव द्रढयति । “बहुधा जायमानः” इत्यपि परत्वं न निवारयति । “अजायमानो बहुझा विजायते” इति कर्मभिरजायमानस्यैवाश्रितवात्सल्याच्छन्दतो जननं हि तस्य श्रूयते ॥
“तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” “तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्” इति च पुण्यपापमामरूपविनिर्मुक्तानां (नामरूप omitted A1. M1.) प्राप्यतया व्यपदेशाच्चायं परः ॥
यथा न प्रधानमतच्छब्दात् , तथा न प्राणभृदपीत्यर्थः ।।
“अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम् " इत्यादिना प्रत्यगात्मनो भेदेन व्यपदेशाच्चायं (भेदव्यपदेशाच्चायं, M2) परः।।
“अथ परा यया तदक्षरमधिगम्यते " इत्यादि परस्य हीदं प्रकरणम् ।।
“तयोरन्यः पिप्पलं स्वाद्वस्त्यनश्नन्योऽभिचाकशीति” इति जीवस्यकर्मफलादनभिधायानश्नतो दीप्यमानस्य स्थित्यभिधनाच्चायं परमात्मा ।।