17 वैश्वानराधिकरणम्

वैश्वानराधिकरणम् ॥ 6 ॥
वैश्वानरस्साधरणशब्दविशेषात् ॥ 25 ॥
‘आत्मानमेवेमं वैश्वानरम्’ (छा.उ. 5.11.6) इत्यादौ वैश्वानरः परमात्मा, जाठराग्न्यादिषु साधारणस्यापि वैश्वानरशब्दस्य अस्मिन्प्रकरणे परमात्मासाधारणैः सर्वात्मकत्वब्रह्मशब्दादिभिर्विशेष्यमाणत्वात् ॥ 25 ॥

स्मर्यमाणमनुमानं स्यादिति ॥ 26 ॥
द्युलोकप्रभृति पृथिव्यन्तं रूपम् ‘अग्निर्मूर्धा’ (मुं.उ. 2.1.4) इत्यादिषूक्तम्, अत्र प्रत्यभिज्ञायमानमस्य परमात्मत्वे अनुमानं - लिङ्गमित्यर्थः ॥ 26 ॥

शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ 27 ॥
‘स एषोऽग्निर्वैश्वानरः’ (अग्निर. 10.5.6.11) इति अग्निशब्दसामानाधिकरण्यात् प्राणाहुत्याधारत्वादिभिः, ‘पुरुषेऽन्तः प्रतिष्ठितम्’ (अग्निर. 10.5.6.11) इत्यादेश्च नायं परमात्मेति चेत्, नैतत्; जाठराग्निशरीरकत्वेनोपास्यत्वोपदेशात् । केवलजाठराग्नेः त्रैलोक्यशरीरकत्वाद्यसंभवाच्च । ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’ (अग्निर. 10.5.6.11) इत्येनं वैश्वानरं पुरुषमप्यधीयते वाजिनः । निरुपाधिकपुरुषशब्दश्च परमात्मनि नारायणे एव ‘सहस्रशीर्षम्’ (तै.आ. 6.11.1) इत्यारभ्य, ‘विश्वमेवेदं पुरुषः’ (तै.आ. 6.11.1) इत्यादिषु प्रसिद्धः ॥ 27 ॥

अत एव न देवता भूतञ्च ॥ 27 ॥
यतोऽयं वैश्वानरः त्रैलोक्यशरीरः पुरुषशब्दनिर्दिष्टश्च, ततोऽयं नाग्न्याख्यदेवता, तृतीयमहाभूतञ्च ॥ 28 ॥

साक्षादप्यविरोधं जैमिनिः ॥ 29 ॥
नावश्यमग्निशरीरकत्वेन उपास्यत्वायेदमग्निशब्दसामानाधिकरण्यम्, अग्रनयनादियोगेन परमात्मन्येवाग्निशब्दस्य साक्षाद्वृत्तेस्सामानाधिकरण्याविरोधं जैमिनिराचार्यो मन्यते ॥ 29 ॥

अभिव्यक्तेरित्याश्मरथ्यः ॥ 30 ॥
‘यस्त्वेतमेवं प्रादेशमात्रम्’ इत्यनवच्छिन्नस्य द्युप्रभृतिपरिच्छिन्नत्वम् उपासकाभिव्यक्त्यर्थमिति आश्मरथ्यः ॥ 30 ॥

अनुस्मृतेर्बादरिः ॥ 31 ॥
द्युप्रभृतिपृथिव्यन्तानां मूर्धादिपादान्तावयवत्वकल्पनं, तथाऽनुस्मृत्यर्थं - ब्रह्मप्रतिपत्तय इति बादरिः ॥ 31 ॥

सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ 32 ॥
‘उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः’ (छा.उ. 5.18.2) इत्यादिना उपासकहृदयादीनां वेद्यादित्वकल्पनं, विद्याङ्गभूतायाः प्राणाहुतेः अग्निहोत्रत्वसंपादनार्थम् इति जैमिनिः । दर्शयति च श्रुतिः - ‘य एतदेवं विद्वानग्निहोत्रं जुहोति’ (छा.उ. 5.24.2) इति । एते पक्षास्स्वीकृताः । पूजार्थमाचार्यग्रहणम् ॥ 32 ॥

आमनन्ति चैनमस्मिन् ॥ 33 ॥
एनम् - परमात्मानम्, अस्मिन् - उपासितृशरीरे प्राणाहुतिवेलायाम् अनुसन्धानार्थं ‘तस्य ह वा एतस्य …. मूर्धैव सुतेजाः’ (छा.उ. 5.18.2) इत्यादि आमनन्ति च; उपासकस्य मूर्धादिरेवाऽस्य परमात्मनो मूर्धादिरित्यर्थः ॥ 33 ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे प्रथमाध्यायस्य द्वितीयः पादः ॥ 1.2 ॥