अदृश्यत्वादिगुणकाधिकरणम् ॥ 5 ॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ 22 ॥
‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम्’ (मुं.उ. 1.1.5) इत्यारभ्य ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ (मुं.उ. 1.1.6), ‘अक्षरात् परतः परः’ (मुं.उ. 2.1.2) इत्यादौ प्रधानात्प्रत्यगात्मनश्च अर्थान्तरभूतः परमात्मा प्रतिपाद्यते । ‘यस्सर्वज्ञस्सर्ववित्’ (मुं.उ. 1.1.9) इत्यादि धर्मोक्तेः ॥ 22 ॥
विशेषणभेदव्यपदेशभ्याञ्च नेतरौ ॥ 23 ॥
एकविज्ञानेन सर्वविज्ञानरूपविशेषणव्यपदेशान्न प्रधानम् । ‘अक्षरात् परतः परः’ (मुं.उ. 2.1.2) इति प्रधानात्परतः प्रत्यगात्मनोऽपि पर इति भेदव्यपदेशात्, न प्रत्यगात्मा च । अथवा; सामानाधिकरण्येन परतोऽक्षरात् पञ्चविंशकात् पर इति भेदव्यपदेशः ॥ 23 ॥
रूपोपन्यासाच्च ॥ 24 ॥
‘अग्निर्मूर्धा’ (मुं.उ. 2.1.4) इत्यादिना त्रैलोक्यशरीरोपन्यासाच्च परमात्मा ॥ 24 ॥