अन्तर्याम्यधिकरणम् ॥ 4 ॥
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ 19 ॥
‘यः पृथिव्यां तिष्ठन्’ (बृ.उ. 5.7.3) इत्यादिषु अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमपरुषः, सर्वान्तरत्व-सर्वाविदितत्व-सर्वशरीरकत्व-सर्वनियन्तृत्वादिपरमात्मधर्मव्यपदेशात् ॥ 19 ॥
न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ 20 ॥
नायं प्रधानं जीवश्च, तयोरसंभावितसर्वाविदितत्वादिधर्माभिलापात् असंभावनया यथा न स्मार्तम्, तथा जीवोऽपीत्यर्थः ॥ 20 ॥
उभयेऽपि हि भेदेनैनमधीयते ॥ 21 ॥
उभये - काण्वा माध्यन्दिनाश्च ‘यो विज्ञाने तिष्ठन्’ (बृ.उ. 5.7.22) ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरं य आत्मानमन्तरो यमयति’ (बृ.उ. 5.7.22 माध्यन्दिनपाठः) इति प्रत्यगात्मनो भेदेन एनम् - अन्तर्यामिणम्, अधीयते; अतः पर एवायम् ॥ 21 ॥